________________
९५८
९५८
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ५ सू. ४
खल्वभावः कश्चिदेकस्तुच्छ उभयाभिमतोऽस्ति । भावान्तरस्वभावत्वेन तस्यास्माभिः प्रागुपपादितत्वात् । त्वयापि तथैव प्रतिपन्नत्वाद्भावान्तराणां चानेकत्वेन तदात्मकाभावस्याप्यनैक्यात्कथमैक्यं साध्यं तत्र बर्तते । अनुमानबाधितश्चात्र पक्षः । तथा हि-ये यत्र नोत्पन्ना न च ५ प्रागवस्थायिनो नापि पश्चादन्यतो देशादागतिमन्तस्ते तत्र न वर्तन्ते
यथा रासभशिरसि तद्विषाणादयः । तथा च सामान्यं तच्छून्यदेशोत्पादवति शाबलेयादिके वस्तूनीति व्यापकानुपलब्धिरिति । नैकं किंचन शाबलेयादिषु गोत्वादिसामान्यमुपपद्यते ततः । सदृशपरिणाम रूपमेव तदभ्युपगन्तव्यम् । ब्राह्मणत्वादिकं तु सदृशपरिणामरूपमपि नास्त्येव । प्रत्यक्षादिना तदप्रतीतेः । तथा हि-प्रत्यक्षेण प्रतीयमानं ब्राह्मण्यं किं निर्विकल्पकेन सविकल्पकेन वा प्रतीयते । न तावन्निर्विकल्पकेन । तत्र जात्यादिप्रतिभासाभावात् । तथा चावाचि भट्टन----
'अस्ति ह्यालोचना ज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ ततः परं पुनर्वस्तुधर्मेर्जात्यादिभिर्यथा।
वुद्धथावसीयते सापि प्रत्यक्षत्वेन संमता ।।' इति । नापि सविकल्पकेन । विस्फारिताक्षस्य पुरोवर्तिखण्डमुण्डक
भैदिव्यक्तिषु गवाश्चादिजातिवन्मनुष्यव्यक्तिषु मनुष्यत्वपुंस्त्वाद्यतिरिक्तब्राह्मणस्य कस्यचिदप्रतिभासात् । अथ प्रतिभासत एवैत२० विशिष्टसहकारिसमन्वितेन्द्रियप्रभवप्रत्यक्षे पुरश्चारिषु क्षत्रियादिषु तद्वै
लक्षण्येन ब्राह्मणेष्वेव ब्राह्मणोऽयं ब्राह्मणोऽयमिति प्रत्यक्षदर्शनादिति चेत् । ननु किमिदमिन्द्रियसहकारित्वेनात्रेष्ट ब्राह्मणभूतस्य पितृजन्यत्वं, पितृगोचरोऽविप्लुतत्वोपदेशः, आचारविशेषः, संस्कारविशेषः, वेदा.
ध्ययनं, यज्ञोपवीतादिकं, ब्रह्मप्रभवत्वं वा । तत्राद्यपक्षोऽनुपपन्नः । २५ यतः पित्रोर्ब्राह्मण्ये सिद्धे तजन्यत्वेन पुत्रस्य ब्राह्मण्यं सिध्येत् ।
१ मी. श्लो. वा. सू. ४ प्रत्य. सू. श्लो. ११२।१२।।
"Aho Shrut Gyanam"