________________
२५८
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सु. ८ प्रत्ययः पिण्डादिव्यतिरिक्तनिमित्तनिबन्धनो विशिष्टप्रत्ययत्वान्नीलादिप्रत्ययवद्गोपिण्डादर्थान्तरं गोवं भिन्नप्रत्ययविषयत्वाद्रूपस्पर्शादिवत्तस्येति व्यपदेशत्वाच्चैत्रतुरङ्गमवत् । गौ¥रित्यभिन्नाभिधानप्रत्ययावनुवृत्तवस्तुनिमित्तावभावसामान्याभिधानप्रत्ययान्यत्वे सत्यनुवृत्ताभि५ धानप्रत्ययत्वात् । चर्मवस्त्रादिषु नीलद्रव्यसंबन्धान्नीलं नीलमित्यभिधान
प्रत्ययवदित्यादीन्यनुमानानि । तत्र पिण्डादेवतिरिक्तमात्रमेकान्तेन वा व्यतिरिक्त निमित्तान्तरं साध्येत । आद्यपक्षे सिद्धसाधनम् । सदृशपरिणामस्य कथंचियतिरिक्तस्य निमित्तान्तरस्येष्टत्वात् ।
द्वितीयपक्षे तु पक्षम्य प्रत्यक्षबाधा कथंचियतिरिक्तात्मकसामान्यो१० पलम्भेन तद्व्यतिरेकैकान्तस्य बाधात् । अत एव कालात्ययापदिष्टत्वं
हेतोः । साध्यविकलता च दृष्टान्तस्य । जैनानामेकान्तस्य कचिदप्रसिद्धः । ये ऋमित्वानुगमित्ववस्तुत्वोत्पत्तिमत्त्वसत्त्वादिधर्मोपेताः प्रत्ययान्ते नित्यसर्वगतसामान्यनिबन्धना न भवन्ति । यथा भावेष्व
भावोऽभाव इति । सामान्येषु वा सामान्य सामान्यमिति प्रत्ययाः ! १५ तथा च विवादाध्यासिता: प्रत्यया इत्यनुमानबाधश्च सर्वत्र । यदुक्तम्
'परसामान्यं सत्ताख्यम्' इति तत्रैतया भिन्नैकरूपया सत्तया सत्त्या सतो वस्तुनः समवायः स्यादसतो वा । सत: सत्तासमवाये वैयर्थ्यम् । तथापि तत्समवायेऽनवस्था । असतः सत्तासमवाये
खरविषाणादेरपि स भवेत् । अविशेषात् । अथ तत्समवाया२० प्राग्वस्तु स्वयं न सन्नाप्यसत् । अत एवं सत्तासमवाया
तत्सदित्युच्यते । तदेतदलौकिकं किमपि प्रमेयरहस्यमनेनालोकितम् । तथा हि-सदिति वचनात्तस्य सतासंबन्धात्प्रागभाव उक्तः । सत्प्रतिषेधलक्षणत्वादस्य । नो अप्यसदित्यभिधानात्युनर्भावोऽसत्त्वनिषेधरूपत्वा
द्भावस्य रूपान्तराभावात् । तथा च वैयाकारणा:- 'द्वौ प्रतिपेधी २५ प्रकृतमर्थ गमयतः' इति । तार्किका अपि नेदं निरात्मक जीवच्छ
रीमित्यत्र नैरास्यनिषेधेन सात्मकत्वं साधयतो निषेधद्वयस्य विधायक
"Aho Shrut Gyanam"