________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः
९५५ नापि व्यङ्ग्यत्वे सति यद्यत्रोपलभ्यते तत्तत्र समवेतमेव । प्रदीपालोके. नाभिव्यक्तानां तत्रासमवेतानामप्युपलम्भात् । न च सामान्य व्यञ्जके समवेतमेचोपलभ्यत इत्यपि नियमः । सामान्यविशेषयोव्यङ्ग यव्यञ्जकभावस्य प्राक्पराकरणात् । कर्कादौ सत्त्वाभावादनुपलम्भः सामान्यस्येत्यपि नोपपन्नम् । सर्वगतत्त्वाभावापत्तेः । अथ व्यक्तिसर्वगतं ५ सामान्यमङ्गीकृत्योच्यते तर्जुत्पत्स्यमानव्यक्तिदेशे तत्ताव दसदभ्युपगन्तव्यम् । अन्यथा व्यक्तिसर्वगतत्वव्यातिप्राप्तेः । तत्रोत्पन्नायां च व्यक्तो कुतस्तत्तत्र भवेत् । न तावद्व्यक्त्या सहैवोत्पद्यते । नित्यत्वेन स्वीकृतत्वात् । व्यक्त्यन्तरादागच्छेदिति चेत् । ननु ततस्तदागच्छत्यूर्वव्यक्तिं परित्यज्यागच्छेदपरित्यज्य वा । प्रथमपक्षे १० तस्यास्तद्रहितत्वप्रसंगः । अथापरित्यज्य तत्रापि किं व्यक्त्या सहैवागच्छेत्केनचिदंशेन वा । प्रथमपक्षे शाबलेयेऽपि बाहुलोऽयमिति प्रतीतः स्यात् । द्वितीयविकल्पस्त्वयुक्तः । निरंशत्वेनास्यांशवत्तया प्रवृत्यसंभवात् । सांशत्वे चाम्य व्यक्तिवदनित्यत्वप्रसंगः । तदुक्तम्--
'अन्यत्र वर्तमानस्य ततोऽन्यस्थानजन्मनि । तस्मादचलतः स्थानावृत्तिरित्यतियुक्तिमत् ।। न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ।
जहाति पूर्व नाधारमहो व्यसनसन्ततिः ॥ इति । अथ प्रमाणसिद्धो वस्तुस्वभावो नोपहासमात्रेण त्यक्तुं शक्यते । २० विचित्रा हि पदार्थानां शक्तिर्यथा मन्त्रादिसंस्कृतं वस्त्रमुदरस्थं व्याधिविशेषं छिनति नोदरस्थान्त्रादिकम् । तस्मात्तथा यद्वस्त्राकारविलक्षणो यः प्रत्ययः स तव्यतिरिक्तनिमित्तान्तरनिबन्धनो यथा वस्त्रादिषु रक्तादिप्रत्ययस्तथा चाय पिण्डादिषु गवादिप्रत्ययः, गवादिष्वनुवृत्त
"Aho Shrut Gyanam"