________________
२५४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ त्यागूमप्युपलम्भः स्यात् । यत्तु केनचिदुच्यते- 'सामान्यस्य क्रमेण स्वात्मप्रकाशन कार्यान्तरकरणं वा स्थितिः। सा तदाधारसामर्थ्याद्भवति । तदाधाराभावे ह्यसामर्थ्यप्राप्तिरेव गतिः । सा चासत्याधारे
न भवतीत्याधारः स्थापक उच्यते' इति तदप्यसंगतम् । गतिस्थिति५ शब्दयोः कर्मविशेषे तन्निवृत्तौ च लोके रूढत्वान्नूतनशब्दार्थपरि
कल्पनानुपपतेः । तथा परिकल्पनायां हि न किंचित्कचिद्दषणं स्यात् । अनित्यः शब्दश्चाक्षुषत्वादित्युक्तेऽपि चाशुषत्वस्य कृतकत्वार्थपरिकल्पनायामसिद्धेचंसयितुं शक्यत्वात् । न च सामान्यचलनरूपं
गमनं संभवति यतस्तन्निवृत्तिराधारः क्रियेत । किं च म्वाश्रयेन्द्रिय१० संबन्धवशाद्यत्कीचिद्गृह्यते सामान्य तस्मादन्यत्रागृह्यमाणमपि
तदभिन्नमेवेति । तत्राप्यनेन स्वाश्रयेन्द्रियसंबन्धवतैव भाव्यम् । अन्यथा भेदापत्तेरिति कथं न तत्रापि तद्ग्रहणम् । एतेनाश्रयसमवेतरूपाभावादित्यपि प्रत्युक्तम् । ततः सर्वसर्वगतत्वे सामान्यस्य व्यक्त्य
न्तरालेऽप्युपलम्भः स्यादेव । अथान्तरालशब्देन किं पिण्डान्तरं १५ कर्कादिकमाकाशादिदेशो मूर्तद्रव्याभावो वाभिधीयते । यद्याद्यपक्ष
स्तदा कर्कादौ गोत्वादेरवृत्तेरग्रहणमनुपपन्नमेव । न हि यद्यत्र नास्ति तत्तत्र गृह्यत इति परस्याप्यभ्युपगमः । एतेनाकाशादिदेशमूर्तद्रव्याभावपक्षावपि प्रतिक्षिप्ताविति चेत् । तदप्यसंगतम् । एवमभिधाने सर्वत्र तदभिधानानिवृत्तेर्घटद्वयान्तराले पटादिद्रव्यस्याग्रहणादभाव २० इत्यत्रापि विकल्पै(ल्प्योतदोषाणामभिधातुं शक्यत्वात् । अथान्त
रालशब्दस्यात्र लोकप्रसिद्ध एवार्थः सुषिरमात्ररूपोऽविचारितरमणीयः प्रकल्पते । तर्येतदन्यत्रापि समानमिति न पर्यनुयोगावकाशः । अपि च कर्कादौ गोत्वादेरवृत्तेरिति कोऽर्थः । किं तत्र समवायाभावात्सत्त्वाभावाद्वा । नाद्यः पक्षः । न हि यद्यत्र समवेतं न भवति न २५ तत्तत्रोपलभ्यत इति नियमोऽस्ति । भूतले कलशादेरनुपलम्भप्रसङ्गात्।
"Aho Shrut Gyanam"