________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
पक्षस्य शशमस्तकशृङ्गासङ्गतमित्यादिवत्पदार्थान्तरोपलम्भरूपानुपलम्भबाधितत्वाद्धेतोः स्वरूपसिद्धत्वाच । न हि भिन्नदेशासु व्यक्तिषु सामान्यमेकं युगपद्वर्तमानं प्रत्यक्षतः स्थूणादौ वंशादिवत्प्रतीयते । यतो युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्येकत्वं तस्य सिद्धयत्स्वाधारान्तरालेऽस्तित्वं साधयेत् । किं चाव्यक्तत्वात्तत्र तस्यानुपलम्भस्तदा ५ सिध्येद्यदि व्यक्त्यभिव्यङ्गयता सामान्यस्य सिद्धा स्यात् । न चैव नित्यकरूपस्या भव्यक्तरेवानुपपत्तेः । तथा हि-व्यक्तिरुपकारं कुर्वती सामान्य व्यञ्जयेदितस्था वा । कुर्वती चेत्कोऽनया तस्योपकारः क्रियेत ! तज्ज्ञानोत्पादनयोग्यता चेत् । सा ततो भिन्ना, अभिन्ना वा विधीयेत । भिन्ना चेत्तत्कारणे सामान्यस्य न किंचित्कृतमिति तदवस्थास्यानमि- १० व्याक्तिः । अभिन्ना चेत्तत्कारणे सामान्यमेव कृतं स्यात् । तथा चानित्यत्वम् । तज्ज्ञानं चेतहि कथं सामान्यसिद्धिः । अनुगतज्ञानस्य व्यक्तिभ्य एव प्रादुर्भावात्। तत्साहायस्याप्यत्र व्यापार इत्यपि श्रद्धामात्रम् । यतो यदि घटोत्पत्तौ दण्डाद्युपेतकुम्भकारवद्युक्त्युपेतं सामान्यमनुगतज्ञानोत्पत्ती व्याप्रियमाणं प्रतीयेत । स्यादेतत् । तच्च नास्त्येव । न किंचित्कुर्व- १५ त्याश्च व्यञ्जकत्वे विजातीयवक्तेरपि व्यञ्जकत्वमङ्गः। तन्नाव्यक्तत्वातस्य तत्रानुपलम्भः । नापि व्यवहितत्वात् । सर्वसर्वगतत्वविरोधापतेः । नापि दूरस्थितत्वात् । अत एव । नाप्यदृश्यात्मत्वात् । विवक्षितव्यक्तिदेशेऽप्यनुपउम्भापतेः । न चैकस्यैव क्वचिद्दश्यत्वं कचित् पुनरप्यदृश्यत्व नुपपद्यते । विरोधात् । अदृश्यसामान्यप्रदेशे व्यक्तिप्राप्तावपि २० तदनभिव्यक्तिप्रसंगाच्च । न चादृश्यमपि प्राक्सामान्यं तदानीं दृश्यस्वभावमेवाभूदिति वक्तव्यम् । अनित्यत्वप्राप्तेः । स्वाश्रयेन्द्रियसंबन्धविरहादित्यप्यसत् । आश्रयाश्रधिभावस्योपकार्योपकारकभावे सत्येव कुण्डबदरादिवत्संभवात् । बदराणां हि गुरुत्वादधो गच्छतां गतिप्रतिबन्धेन स्थितिलक्षणोपकारकर्तृत्वात्कुण्डमाधारः स्थापकः । सामान्यस्य २५ तु निष्क्रियत्वेन पनामावान्न कश्चिदाधारः संभवतीत्यनाश्रितत्वा
"Aho Shrut Gyanam"