________________
९५२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू.८ त्वेनेष्टस्य गुणवदप्रतिभासनेऽपि नाभावो भवति तथास्यापि न भविष्यतीति चेत् । सत्यम् । यदि हि चित्रज्ञानवत्सामान्यमभ्युपगम्यते तदा को नामैतत्पराकुर्यात् । न खलु चित्रज्ञानमध्येकमेव
किं त्वनेकनीलाद्याकारात्मकत्वादनेकयपि । तद्यदि सामान्यमप्य५ नेकव्यक्त्यात्मकत्वात्कथंचिदनेकं स्यात् । तदा को नामैतत्तथा नातिष्ठेत ।
कीदृशश्वाय गवाद्यनुगताकारप्रत्ययः । किं य एवायं गौः स एवायमपि । किं वायमपि गोरयमपि गौः । यद्वा गौगौरिति सामान्येनेति । नाद्यः पक्षः श्रेयान् । शाबलेयबाहुलेयविशेषयोरक्यापत्तेः । द्वितीयपक्षस्तु
युक्तः । अयमित्यनेन सदृशाकारसाधारणं वस्तुमात्रं परामृश्य गौरि२. त्यनेन सदृशपरिणामपरामर्शात् । गौगौरिति प्रत्ययो न त्वत्संमतसामा
न्योल्लेखवानेव भवितुमर्हति । सदृशपरिणामात्मसामान्येऽप्यविरोधात् । किं च यद्ये कमेव सामान्यमिष्यते तदानीमेकत्रैव व्यक्तौ तस्य परिसमाप्तत्वात्कथं व्यक्त्वन्तरे समुपलभो भवेत् । सर्वगतत्वादिति
चेत् । ननु सर्वसर्वगतत्वं व्यक्तिसर्वगतत्वं वाङ्गीकृत्येदमुच्यते । सर्वसर्व१५ गतत्वे खण्डादिव्यत्यन्तरालेऽपि गोत्वोपलम्भप्रसंगः । तत्रानुपलम्भो
हि तम्याव्यक्तत्वाद्यवहितत्वाद्दरस्थितत्वाददृश्यात्मत्वात्स्वाश्रयेन्द्रियसम्बन्धविरहादाश्रयसमवेतरूपाभावाद्वा । नायः पक्षः श्रेयात् । यस्मादव्यक्तत्वादन्तराले तम्यानुपलम्भे व्यक्तिस्वात्मनोऽप्यनुपलम्भोऽत
एव तत्रास्तु । अन्तराले व्यक्त्यात्मनः सद्भावावेदकप्रमाणाभावा. २० दसत्त्वादेवानुपलम्भे सामान्यस्यापि सोऽसत्त्वादेव तत्रास्तु । विशेषा
भावात् । किं च प्रथमव्यक्तिग्रहणवेलायां तदभिव्यक्तम्य सामान्यस्य सर्वात्मनाभिव्यक्ति तैव । अन्यथा व्यक्ताव्यक्तस्वभावभदेनानेकत्वानुषङ्गादसामान्यरूपतापतिः । तस्मादुरलब्धिलक्षणप्राप्तस्य व्यक्त्य
न्तराले सामान्यस्यानुपलम्भादसत्त्वं व्यक्तिस्वात्मवत् । ननु स्वव्यक्त्य२५ न्तरालेऽस्ति सामान्यं युगपद्भिनदेशस्वाधारवृत्तित्वे सत्येकत्वाद्वंशा
दिवत्, इत्यनुमानात्तत्र तत्सद्भावसिद्धिरिति चेत् । तदप्ययुक्तम् ।
"Aho Shrut Gyanam"