________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः प्रत्ययः किं वानुगते वस्तुनि प्रत्यय इति । आद्यपक्षे कोऽयं प्रत्ययस्यानुगमो नाम, ऐक्यं सादृश्यं वा । न तावदैत्यम् । प्रत्ययानां क्षणिकत्वेन प्रतिविशेषमैक्यासंभवात् । अथ सादृश्यमनुगमः प्रत्ययस्य । ननु किंकृतं तस्य सादृश्यं विषयसादृश्यकृतं विषयैक्यकृतं वा । यद्याद्यः पक्षः । तदा न कश्चिद्विवादः । सदृशपरिणामात्मकस्य प्रतिव्यक्ति व्यवस्थितसामान्यस्य तादृशप्रत्ययहेतुतयास्माभिरपि स्वीकारात् । अस्यैव चानुभवसमृद्धिबन्धुरत्वात् । विषयैक्यकृते तु प्रत्ययसादृश्यस्वीक्रियमाणानुगते वस्तुनि प्रत्यय इत्ययमेव पक्षोऽभ्यु. पेतः स्यात् । न चासौ संगच्छते । अनुगतस्यैकस्यानै कम्थस्यैकान्तभदिनः सामान्यस्य विचार्यमाणस्यायोगात् । अथ किं विचारैः । १०. प्रत्यक्षमेव तावत्प्रमाणं विभिन्नगवादिव्यक्तिव्यतिरिक्तमेकं सामान्यमर्पयति । गवाद्यनुगताकारेन्द्रियप्रभवप्रत्यये तथाविधस्यैव तस्य प्रतिभासनात् । न हीदं प्रत्यक्षमेकाकारवस्त्वालम्बनमन्तरेणोपपद्यते । निर्हेतुकत्वं सर्वदा सत्त्वस्यासत्त्वस्य वा प्रसंगात् । गोपिण्डेप्विवान्यत्रापि वा नियामकामावतः प्रवृत्त्यनुषङ्गात् । न च व्यक्त्यालम्बनत्वा- १५ दयमदोष इति वाच्यम् । व्यक्तीनां व्यावृत्तरूपतयैकाकारप्रत्ययालम्बनत्वायोगात् । अन्याकारप्रत्ययस्यान्यालम्बनत्वे सर्वत्रानाश्वासादिति । तदपि नोपपद्यते । शाबलेयादिसदृशव्यक्तिव्यतिरेकेणापरस्यकाकारस्य सामान्यस्याक्षजप्रत्यये प्रतिमासाभावात् । न ह्यक्षव्यापारेण शाबले. यादिषु व्यवस्थितं भूतकण्ठे गुण इव भिन्नमनुगताकारं सामान्य २० केनचिलक्ष्यते । अथ न भूतकण्ठे गुणवदप्रतिभासनादभावः स्वरूपणैव सर्वार्थानां प्रतिभासनादन्यथाभूतकण्ठानामपि गुणवदप्रतिभासनादभावः स्यादिति चेत् । तदपि पराभिप्रायानभिज्ञभाषितम् । यतोऽयमत्राभिसंधिःयदि सामान्यमनेकसंबद्धमेकमिष्यते तदा यथा भूतकण्ठेप्वनेकेप्वेक एवं गुणः सम्बद्धः प्रतिभासते तथेदमपि प्रतिभासेत । न चैवम् । ततो २५ नैतत्तथारूपमुपेतव्यमिति । अथ यथा चित्रज्ञानस्यानेकनीलादिसम्बन्धि
"Aho Shrut Gyanam"