________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ५ सू.८
दशायामविशेषात् । न .... .... .... .... .... .... .... .... .... प्यौपाधिक एवेति वक्तव्यम् । तत्रोपाधेः कस्याप्यनुपलक्षणात् । तथापि तत्कल्पनायामुक्षेपणादिप्रत्ययस्यापि तथात्वापत्ते: कुतः कर्मणः पञ्चधात्वं स्यात् । यदपि क्षणिकत्वं साधर्म्यमिति चेत् । ५ तदपि नोपपन्नम् । धानुष्कदेशालयदेशं यावदाणादावे कस्यैव कर्मणः समुपलम्भात् । सदृशापरापरकर्मक्षणोत्पादाकेशनखादिवत्तत्र तथा प्रतीतिरिति चेत् । नैतत्सत्यम् । एकत्वबाधकोपदर्शनमन्तरेण तथा कल्पनानुपपत्तः । क्षणिकत्वे चास्य कथमुक्षेपणमिदमित्यादि. प्रत्ययोत्पत्ति: स्यात् । तद्युत्क्षेपणत्वादिजात्यभिव्यञ्जकः कर्मक्षणस्तत्समुदायो वा भवेत् । न तावत्तत्क्षणो यतो यावति प्रदेशे परमाणोरनुप्रवेशः .... .... .... .... .... .... .... यदप्यवादि 'अनुवृत्तप्रत्ययकारणलक्षणं, सामान्यं द्विविधं परम
परं नित्यमेव' इति तत्र कोऽयमनुवृत्तः सामान्यपदार्थ परीक्षणम् ।
प्रत्येया नाम । किं च परमपरं वा १५ सामान्यमिति । अनुगतप्रत्ययोऽनुवृत्तप्रत्ययः । परसामान्य
सत्ताख्यम् । तच्च त्रिषु द्रव्यगुणकर्मसु पदार्थेष्वनुवृत्तप्रत्ययस्यैव कारणत्वात्सामान्यमेवोच्यते न विशेषः। अपरं तु द्रव्यत्वगुणत्वकर्मत्वादिलक्षणम् । तच्च स्वाश्रयेषु पृथिव्यादिप्यनुवृत्तप्रत्ययहेतुत्वासामान्यमित्युच्यते । स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तप्रत्ययहेतुतया विशेषणात्सामान्यमपि सद्विशेषसंज्ञा लभते । तथा हि- द्रव्यादिप्वगुण इत्यादिकापीयं व्यावृत्तबुद्धिरुत्पद्यते । तां प्रति द्रव्यत्वादिसामान्यानामेव हेतुत्वं नान्यस्य । न ह्यगुणत्वादिकमपरमस्ति । अपेक्ष्यभेदाच्चैकस्य सामान्यविशेषभावो न विरुद्धयते । यद्वा सामान्य
रूपता मुख्यतो विशेषसंज्ञा तूपचारतो विशेषाणामिव द्रव्यत्वादी२५ नामपि व्यावृत्तबुद्धिनिबन्धनत्वादिति चेत् । अत्रोच्यते । यदुक्तम्--
'अनुगतप्रत्ययोऽनुवृत्तप्रत्ययम्' इति तत्रानुगतश्चासौ प्रत्ययश्चेत्यनुगत
"Aho Shrut Gyanam"