________________
परि. ५ सू. ८ ]
स्याद्वादरत्नाकर सहितः
·
चेत् । तत्रैकमेकत्रैव वर्तत इति युक्तम् । एकत्रैकमेव वर्तत इति त्वयुक्तम् । एकत्रापि कर्मद्वयोपलम्भात् । अथैकस्मिन्द्रव्ये युगपद्विरुद्धेोभयकर्मसमवायः स्यात्तदितरो वा । आद्यस्तावदसंभवी । तयोः परस्परं प्रतिबन्धात् । दिग्विशेषसंयोगविभागानुत्पत्तौ देशादेशान्तरप्राप्तिहेतुत्वतल्लक्षणाभावात् । अथ द्वितीयस्तदैकस्मादेव कर्मणस्तद्देश- ५ द्रव्यसंयोगविभागयोरुत्पत्ते द्वितीय कल्पना वैयर्थ्यमिति । तन्न तथ्यम् । पक्षद्वयस्याप्युपपत्तेरेकत्र चैत्रादिशरीरावयविनि हस्तोत्क्षेपस्य पादापक्षेपस्य च विरुद्धस्य भ्राम्यद्भ्रमरकादौ भ्रमणोत्क्षेपणादेरविरुद्धस्य च कर्मणो युगपत्प्रतीतेः । न च वाच्यं हस्तपादयोरवयवयोरेव ते कर्मणी न त्वेकस्यावयविनस्तदुभयमस्तीति । एवं हि श्येन- १० स्थाणुसंयोगादिरपि न स्यात् । तत्रापि चरणमस्तकयोस्त्वव वयोरेव संयोगे न श्येनस्थाण्वोरिति वक्तुं शक्यत्वात् । चरणमस्तकयोरपि वान संयोगस्तयोरप्यवयवित्वादित्येवं च तदवयवयोरप्यवयवित्वेन परम्परया तत्कारणभूतानामजूनामेवासौ भवेत् । तथा चावयवी निष्कर्मा संयोगस्य च परोक्षमेव भवेत् । संयोगस्य प्रदेशवृत्तिनावय- १५ व्यंशे वृत्तिरुपपन्नैव न तु कर्मण इति चेत् । कुत एतत् । प्रदेश एव तदुपलम्भाच्चदयं कर्मण्यपि न नाम नास्ति । यदि विरुद्धयोरप्युत्क्षेपणापक्षेपणयेोरेकत्र संभवः स्यात् । तदा छायातपयोरप्येवं किं न भवेदिति चेत् । नतु भवत्येव । एकस्मिन्पटे तयोर्द्वयोरप्यवस्थानात् । यत्र पटांशे छाया तत्र नास्त्येवातप इति चेत् । तत्कि २० यत्रोत्क्षेपणं तत्रैवांशेऽपक्षेपणमप्यम्मा भिरभ्यधीयेत येनेत्थमुच्येत । ततोऽशभेदेन विरुद्धेऽपि कर्मणी एकत्रावयविनि स्त एव । सामस्त्येन तु ते तत्रोपपद्येते यस्त्वेकस्मादपवर कादपवरकान्तरं गच्छति पुंसि तन्मध्यवर्तिनः प्रमातृद्वयस्य युगपत्प्रवेशनिष्क्रमणविरुद्धकर्मद्वयप्रत्ययः स औपाधिक एव | अपवर कोपाधेर नावेऽभावात् । तस्मा - २५ मनमात्रनिमित्त एवायं व्यवतिष्ठते गच्छतीति प्रतीतेरुपाधिभावाभाव
" Aho Shrut Gyanam"
९४९.