________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५ सू. ८
द्विशेषलाभोऽस्य संयोगविभागेष्वनपेक्षं कारणमित्यनेनैव गुणेभ्यो व्यवच्छेदस्यैतदर्भीीदृष्टस्य सिद्धत्वात् । यदाह स एव - 'संयोगविभा गेष्वनपेक्षं कारणमित्येतावत्कर्मलक्षणमेकद्रव्यमगुणमित्यभिधानं तु कर्मस्वरूपोपवर्णनार्थं न पुनः कर्मलक्षणार्थम् ' इति । एवं धनेन ५ ब्रुवतानक्षरमिदमाख्यायि निरर्थकमेवेदमभिधानमत्रेति । किं चेदमपि लक्षणं नावदातमिति व्याप्तिदोषावतारात् । संयोगविभागयोर्गुणयोरपि संयोगविभागोत्पत्तावनपेक्ष कारणत्वात् । तावपि हि तदुत्पत्तौ समवायिकारणव्यतिरिक्तं कारणान्तरं नापेक्षते । नन्वपेक्षेते एव कारणान्तरं तत्साधारणमसाधारणं वा । साधारणं चेतत्कि कर्मपक्षे काकैर्म१० क्षितं साधारणस्येश्वरबुद्ध्यादेः कारणस्योपेक्षणीयस्य त्रिः स्वयमेवानेनाभिधानात् । असाधारणं चेत्तदप्यत्राक्षूणमीक्ष्यत एव । असाधारणस्य पूर्वसंयोगाभावस्योत्तरे संयोगे कर्तव्येऽनेनापेक्षणात् । कर्म हि विभागमारभ्य विभागात्पूर्वसंयोगनिवृत्तावेवोत्तरसंयोगमारभत इति । अथ पूर्वसंयोगे सत्युत्तरसंयोगो न भवतीत्युत्तरसंयोगोत्पत्ती पूर्वसंयोगः १५ प्रतिबन्धकस्तस्मात्पूर्वसंयोगाभावविशिष्टं कर्मोत्तरसंयोगमारभते
}
न च प्रतिबन्धकाभावविशिष्टस्य कर्मणः कारणत्वे सापेक्षकारणत्वप्रसंगो गुरुत्ववत्, यथा पतनकर्मणि निरपेक्ष कारणं गुरुत्वम् । अथ च संयोगाभाववदेव पतनकारणमिति चेत् । तदप्ययुक्तम् । यतो यदि प्रतिबन्धकाभावसह कारिसापेक्षत्वेऽप्यस्यानपेक्षकारणत्वं कथ्यते । २० किमिदानीं सापेक्षकारणं स्याद्वीजादेरप्यनपेक्ष कारणत्वापत्तेः । यतु गुरुत्वं दृष्टान्तीकृतम् । तदपि नोचितम् । तस्यापि सापेक्षस्यैव पतनकारणत्वोपपत्तेः सामग्र्या एव निरपेक्षकारणत्वव्यवस्थापनात् । पञ्चप्रकारत्वमेतरपादशि तदपि नोपपद्यते ।
▸
९४६
२५
यच्च
तथा
मी अस्य पञ्च प्रकाराः । उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति । तथा च सूत्रम्- 'उत्क्षेपणमपक्षेपण माकुञ्चनं प्रसारणं
१ वं द. १।१।७२
"Aho Shrut Gyanam"