SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ परि. ५ सू. ८ स्याद्वादरत्नाकरसहितः दीनामनतिशयज्ञानस्वरूपप्रतिपादनहेतु: । स एष प्रायोगिक एव । अभाषात्मकोऽपि द्वेधा----प्रयोगविश्रसानिमित्तत्वात् । तत्र प्रयोगनिमितश्चतुर्दा ततादिभेदात् । ततस्तन्त्रीप्रभवः, आनद्धो मुरजादिसमुद्भवः, घनः कांस्यतालादिजनितः । सौषिरो वंशादिनिमित्तः। विश्रसानिमित्तः शब्दो मेघादिप्रभव इति । गुणाश्चतुर्विंशतिरेवमते परीक्षिता येन सदाद्रियन्ते । जिनाश्चतुर्विंशतिरप्यमुष्मिन्प्रसादसान्द्रे नयने भजन्ते ॥ ६८५ ॥ यञ्चाबाचि ‘कर्मत्वाभिसंबन्धनकद्रव्यमगुणं संयोगविभागप्वनपेक्षं .. कारणमित्यनेन वा लक्षणेन लक्षितमुत्क्षेपणादि नैयायिकोक्तकर्मलक्षणपरीक्षा । पञ्चविधं कर्म' इति । तत्र कर्मत्वाभिसंबन्धो १० द्रव्यत्वाभिसंबन्धवत्प्रतिरोधनीयः । लक्षणान्तरं पुनरात्रेयो विवृणोति-- 'एक द्रव्यमिति नाद्रव्यं न चानेकद्रव्यमित्यर्थो नास्य गुणाः सन्ति स्वयं च गुणो न भवतीत्यगुणं संयोगाश्च विभागाश्च संयोगविभागास्तेषु संयोगविभागेषु कारणमित्युत्पन्नं कर्म स्वाश्रयमाश्रयान्तराद्विभज्य संयोजयतीति । तेषु १५ च संयोगविभागेषु कर्तव्येषु कर्म कारणान्तरं नापेक्षत इत्यनपेक्षं न पुनः समवायिकारणमपि नापेक्षित इति । यद्वा संयोगविभागा .... कर्मासाधारण नापेक्षते , इत्यनपेक्ष न पुनः साधारणमपि नापेक्षत इति । दिशः खलु संयोगविशेषापेक्षं कर्म स्वाश्रयस्य संयोगविभागाचारभते तथा च प्रेरकस्य यां दिशं प्रति २० प्रयत्नसमारम्भस्तदभिमुखं कर्म जायते तस्माच कर्मगस्तदभिमुखौ संयोगविभागौ भवतः' अनेनादृष्टेश्वराद्यपेक्षस्य कर्मणः संयोगविभागारम्भो व्याख्यात इति । तत्र गुणो न भवतीत्यगुणमिति तत्पुरुषसमासमाचक्षाणोऽयमात्मनो महद्वैयाकरणत्वमाविरुकरोति तत्पुरुषस्योत्तरपदार्थप्राधान्याद्धि न गुणोऽगुण इति पुंलिङ्ग एवागुण- २५ शब्दः संगच्छते न त्वगुणमिति नपुंसकलिङ्गः । न चैवं कृते कश्चि "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy