________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ मू. ८ न कर्म । व्यापकद्रव्यसमवेतत्वात् । सुखादिवदिति । ततः सिद्धं द्रव्यकर्मान्यत्वे सतीति हेतोर्विशेषणम् । द्रव्यकर्मान्यत्वादित्युच्यमाने सामान्यादिना व्यभिचारः । तन्निवृत्त्यर्थं सत्तासंबन्धित्वादिति । ततः सिद्धमस्य गुरुत्वम् । स च पारिशेष्यादाकाशस्यैव गुणः । तथा हि५ न तावत्स्पर्शवतामणूनां विशेषगुणः शब्दोऽस्मदादिप्रत्यक्षत्वात् ।
कार्यद्रव्यरूपादिवत् । नापि कार्यद्रव्याणां पृथिव्यादीनां विशेषगुणोऽ. सौ कार्यद्रव्यान्तराप्रादुर्भावेऽप्युपजायमानत्वात् । सुखादिवत् । कारणगुणपूर्वकत्वादिच्छादिवत् । अयावन्यभावित्वात्तद्वदेवाश्रया
द्रेर्यादेरन्यत्रोपलब्धेश्च । स्पर्शवतां हि पृथिव्यादीनां यथोक्तविपरीता १० गुणाः प्रतीयन्त इति । नाप्यात्मनो विशेषगुणः शब्दोङ्कारेण विभक्त
ग्रहणाबाह्येन्द्रियप्रत्यक्षवादात्मान्तरग्राह्यत्वाच्च । बुद्धयादीनां पुनरात्मगुणानां तद्वैपरीत्योपलब्धेः । नापि मनोविशेषगुणोऽसौ, अस्मदादिप्रत्यक्षत्वाद्रूपादिवत् । नापि दिकालविशेषगुणोऽसौ । तत एव तद्वत् ।
अतः पृथिव्यादिव्यतिरिक्ताश्रयाश्रितोऽसौ तद्वृत्तिबाधकप्रमाणसद्भावे १५ सति गुणत्वात् । यस्त्वेवं न भवति नासौ तथा । यथा रूपादिः ।
तथा च शब्दस्तस्मा तद्व्यतिरिक्ताश्रयाश्रित इति । स च तयतिरिक्त आश्रय आकाशमेवेति सिद्धमस्याम्बरगुणत्वमिति । तदखिलमलोकम् । गुणः शब्द इत्यादौ हे तोविशेषणैकदेशःसिद्धत्वात् । कर्मान्यत्वे सत्यपि हि शब्दस्य द्रव्यान्तरत्वप्रसिद्धम् । द्रव्यलक्षणलक्षितत्वेनास्य द्रव्यत्वोपपत्तेः । गुणक्रियावत्त्वं हि द्रव्यलक्षणम् । तच्चाविकलं शब्देस्तीत्यतो द्रव्य शब्दो गुणक्रियावत्त्वाद्यदि .... .... .... .... .... महान् शब्दोऽस्मदादिप्रत्यक्षत्वात्पटादिवदिति नात्मना व्यभिचारी हेतुस्तस्याव्यापकत्वेन प्राक्प्रसावितत्वादिति सिद्धं शब्दः पुद्गलस्क
न्धपर्याय इति । स चायं द्वेधा भाषात्मकोऽभाषात्मकश्च । भाषात्मको२५ ऽपि द्विकारोऽक्षरात्मकोऽनक्षरात्मकश्च । प्रथमः शास्त्राभिव्यञ्जकः
संस्कृतादिभेदादार्यम्लेच्छव्यवहारहेतुः । अनक्षरात्मको द्वीन्द्रिया
"Aho Shrut Gyanam"