________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
तयोत्पतेर्न समानशब्दकलकलश्रुतिरिति मतम् । तदैकदिक्केषु समानप्रणिधिषु श्रोतृषु स्थितेप्वत्यासन्नश्रोतृश्रुतस्य परापरश्रोतृश्रवणविरोधः । परापर एव शब्दः परापरश्रोतृभिः श्रूयते न पुनः स एवेति चेत् । स तर्हि परापरः शब्दः पूर्वपूर्वश्रोतृश्रुतशव्दात्प्रादुर्भवेत्ताल्वाद्याकाशसंयोगादेव वा । न तावत्ताल्वाद्याकाशसंयोगात् । यतो ५ यत्रैवायमसमवायिकारणभूतोऽस्ति तत्रैव कार्यमुत्पादयितुष्टेि । तन्तुसंयोगादौ तथा दर्शनात् । न च परापरश्रोतृश्रोत्रप्रदेशेषु ताल्वाद्याकाशसंयोगः समस्ति । नापि पूर्वपूर्वश्रोतृश्रुतशब्दात्प्रत्यासन्नतमश्रोतृश्रुतम्य शब्दस्यान्त्यत्वाच्छब्दान्तरारम्भकत्वविरोधात् । तथा च कथं शेषश्रोतृणां तच्छ्वणं स्यात् । तस्यापरशब्दारम्भकत्वे वान्त्य एव १० शब्दः श्रूयते नानन्त्य इति सिद्धान्तव्याघातः । अथ प्रत्यासन्नतमश्रोतारं । प्रत्यसौ शब्दोऽन्त्यस्तेन श्रयमाणत्वान्न प्रत्यासन्नतर तेनास्याश्रवणात्तेन च श्रूयमाणोऽसौ तमेव प्रत्यन्तो न तु प्रत्यासन्न प्रति । तत एव सोऽपि तमेव प्रत्यन्तो न दूरश्रोतारं प्रतीति मतिः । सापि न श्रेयसी । शब्दस्यैकस्यान्त्यत्वानन्त्यत्वविरोधात् । एकद्रव्यः शब्दः १५ सामान्यविशेषवत्त्वे सति बाखैकेन्द्रियप्रत्यक्षत्वाद्रूपादिवदित्यतोऽनुमानात् । अत्र परमाण्वादिभिर्व्यभिचारपरिहारार्थमिन्द्रियप्रत्यक्षत्वादिति तथापि घटादिनानेकान्तम्तन्निवृत्त्यर्थमेकेति । एकेन्द्रियप्रत्यक्षत्वादित्युच्यमानेऽप्यात्मना व्यभिचारस्तन्निरासार्थं बाह्येति । रूपत्वादिनानेकान्तनिराकरणार्थं च सामान्यविशेषवत्त्वे सतीति । तथा कर्मापि शब्दो न भवति संयोगविभागाकारणत्वाद्रूपादिवदेव । आ( अ )तश्च न द्रव्यं न कर्म शब्दो, अनित्यत्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वात् । यदेवं तत्तथा । यथा रसादिः । तथा च शब्दम्तम्मात्तथेति । आत्मना व्यभिचारपरिहारार्थमनित्यत्वे सतीति । तथाप्यचाक्षुषप्रत्यक्षपरिच्छिद्यमानद्रव्यकर्मभ्यामनेकान्तः । तव्यवच्छित्तये नियमेनेति । २५ तयोः शब्दादियदचाक्षुषप्रत्यक्षत्वनियमासंभवात् । तथाशब्दो न द्रव्यं
"Aho Shrut Gyanam"