________________
२४२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८
भवेत् । सर्वेषां शब्दानामेकैकश्रोतृग्राह्यत्वपरिणामाभावादिति चेत् । तयेककः शब्द एकैकश्रोतृग्राह्यत्वपरिणतः सर्वदिशो गच्छन्नेकैकदिक्केनैव श्रोत्रा श्रूयत इत्यायातम् । तच्चायुक्तम् । एकदिक्केषु प्रणिधानवत्सु श्रोतृषु स्थितेष्वत्यासन्नश्रोतृश्रुतस्य परापरश्रोतृश्रवणविरोधात् । ५ परापर एव शब्दः परापरश्रोतृभिः श्रूयते न पुनः स एवेति चेत् ।
स तर्हि परापरः शब्दः किं वक्तव्यापारादेव प्रादुर्भवेदाहोस्विपूर्वपूर्वश्रोतृश्रुतशब्दात् । प्रथमपक्षे कथमसौ परापरैः श्रोतृभिः श्रूयमाणः पूर्वपूर्वैः समानाकाशश्रेणिस्थैरपि न श्रूयत इति महदाश्चर्यम् ।
श्रवणेऽनुकूलकलश्रुतिरेव भवेत्तेषाम् । तद्ब्राह्यत्वपरिणामामावस्योक्त१० त्वान्नायं दोष इति चेत् । नन्वयमपि कुतो न स्यात् । तत्कारणानां
तथाजनकस्वभावत्वादिति चेत् । सेयं पादप्रसारिका । द्वितीयविकल्पे तु पर्यन्तस्थितश्रोतृश्रुतशब्दादपि शब्दान्तरोत्पत्तिः कथं न भवेत् । पुद्गलम्कन्धम्य तदुपादानम्य सद्भावात् । वक्तव्यापारजनितवायु
विशेषम्य तत्सहकारिणस्तत्राभावादिति चेत् । तर्हि वायवीयः शब्दोऽ१५ म्तु किं वा परेण पुद्गलविशेषेण तदुपादानेन कलितेन कर्तव्यम् ।
तथोपगमे स्वमतविरोधः स्याद्वादिनो दुर्निवार इति । तदेतदखिलं सविशेषमम्बरगुणत्वेऽपि शब्दस्यावतरत्येव । तथा हि-ताल्वाद्याकाशसंयोगादाकाशे शब्दः प्रादुर्भवन्नेक एव प्रादुर्भवेदनेको वा ! प्रथमपक्षे
कुतस्तस्य नानादिकैः श्रोतृभिः श्रवणं सकृत्सर्वदिक्कगमनासंभवात् । २० द्वितीयपक्षोऽपि नोपपद्यते । एकस्मात्ताल्वाद्याकाशसंयोगादनेकशब्दो
त्पत्तिविरोधात् । न चानेकस्ताल्वाद्याकाशसंयोगः सकृदेकस्य वक्तुः संभवति । प्रयत्नस्यैकत्वात् । न च प्रयत्नभेदं विना ताल्वादिक्रियापूर्व ........ .... रागकम्ताल्वाद्याकाशसंयोगो युज्यते । यतोऽनेकः शब्दः
स्यात्, अस्तु वा यतः कुतश्चिदाद्यः शब्दोऽनेकस्तथापि सदृशशब्दानां २५ कोलाहलश्रुतिप्रसंगः । समानशब्दस्यानेकसकृत्सर्वदिकाशेषश्रोतृश्रव
णाभिमुखस्योत्पत्तेः । यदि पुनरेकैकस्यैव शब्दस्यकैकश्रोतृग्राह्यस्वभाव
"Aho Shrut Gyanam"