________________
परि. ५ भू. ८ ]
स्याद्वादरत्नाकरसहितः
गमनमिति कर्माणि ' इति । तत्रोत्क्षेपणं यदूर्ध्वाधः प्रदेशैः संयोगविभागकारणं कर्मोत्पद्यते । यथा शरीरावयवे तत्संबन्धे च मुसलादावृर्वदिग्भागभाविभिराकाशाद्यर्थेः संयोगकारणमघोदिग्भागभाविभिश्च विभागकारणमिति । यत्सूक्तविपरीत संयोगविभागकारणं तदपक्षेपणम् । ऋजुनो द्रव्यस्य कौटिल्यकारणं कर्माकुञ्चनम् । तद्यथा - ऋजु बाह्रा ५ दिद्रव्यं स्वाद्यावयवानामङ्गल्यादीनां तादृशैः स्वसंयोगिभिराकाशाद्यैविभागे सति मूलप्रदेशैश्च संयोगे येन कर्मणां कुटिलं संपद्यते तदाकुञ्चनम्। तद्विपर्ययेण तु संयोगविभागोत्पत्तौ येन कर्मणावयवी ऋजुः संपद्यते तत्कर्म प्रसारणम् । अनियत दिग्देशैर्घटादिभिर्यत्संयोगविभागकारणं तद्गमनम् । उत्क्षेपणादिकं तु चतुःप्रकारमपि नियतदिग्देशैस्तैस्तत्कार- १० गम् । अत एव पञ्चैव कर्माणि भवन्ति भ्रमणस्पन्दनरेचनादीनां गमन एवान्तर्भावादिति । तदशेषमसंगतम् । उत्क्षेपणादीनामशेषाणामपि गमनरूपत्वात्तथाविधप्रत्ययस्य सर्वत्रैवोत्पादात् । तथा हि-ऊर्ध्वं गच्छ त्यग्रप्रदेशान्मूलप्रदेशं गच्छति, मूलप्रदेशादग्रप्रदेश गच्छतीति सर्वेषामपि भवति प्रत्ययः । तथा च प्रयोगविश्रसारूपोभयनिमित्तापेक्षो देशा- १५ देशान्तरप्राप्तिहेतुः परिस्पन्दात्मा परिणामविशेषः कर्मेत्येतावदेवास्तु कृतमुत्क्षेपणादिगणनया । अथ यथात्मत्वस्य संज्ञान्तरं पुरुषत्वं तथा गमनत्वमपि । समस्तभेदव्यापकत्वात्कर्मत्वस्य । यत्तु विशेषसंज्ञया पृथ
मनग्रहणं कृतं तदुत्क्षेपणादिशब्दैरनवरुद्धानां भ्रमणादीनां संग्रहाश्रम् । तदकरणे हि विशेषणसंज्ञोद्दिष्टानामुत्क्षेपणादीनामेव कर्मत्वसंज्ञा- २० विषयत्वं भवेत् । अथ च भ्रमणादयो हि लोके कर्मत्वेन प्रतीतः । ततस्तेषामपि परिग्रहार्थं तस्य पृथग्ग्रहणमिति चेत् । एवं तर्हि सुतरां कर्मपञ्चता पञ्चतां प्राप । उत्क्षेपणादिवत् भ्रमणादीनां गमनभेदानां भूयसां भावात् । यथा खलु गमनभेदः किंचिदुत्क्षेपणमपरमपक्षेपणादि । तथा भ्रमणस्पन्द नहसूकचारीकरणाङ्गहारादिक ( हसनकरचरणाद्यङ्ग - २५ हारादिक) मपीति कथं पञ्चैव कर्माणि स्युः । अथ सर्वस्यापि भ्रमण
"Aho Shrut Gyanam"
९४७