________________
२४
परि. ५ स. ८] स्थाद्वादरत्नाकरसहितः भिधीयते तदासौ स्वीक्रियत एव । परमाणुषु शक्तिरूपतयैव तदस्ति न खलु पार्थिवा अग्मयास्तैजसा वा विसदृशतत्तज्जात्युपलक्षिताः परमाणवः केचित्सन्ति पुद्गलमात्ररूपत्वात्तेषामित्युक्तं प्राक् । तं तं पुनः संघातमापन्नास्तथा तथा व्यपदिश्यन्त इति कुतोऽणषु तसंभवेत् । नीलगुणादिवचास्यापि सौगतं प्रति सिद्धिः । स्नेहोऽपि ५ म्वीक्रियते न पुनरप्स्वेव पार्थिवद्रव्येप्वपि दर्शनात् । प्रतीतो हि तैलवतजतुमधूच्छिष्टादिषु पामरप्रायपुरुषाणामप्यद्भयः सविशेषोऽसौ ! न हि शुद्धान्तःकुम्भे संग्रहस्त कार्य तथा दृश्यते यथा तैलादिकुम्भे । अथोपष्टम्भकान्तद्रव्यगत एव तत्र स्नेह : प्रतिभासते न पुनः स्वगत एवेति चेत् । मैवम् । विपर्ययस्यापि कल्पनापत्तेः । शक्यते वक्तुम- १० म्भसि पार्थिवोपष्टम्भकद्रव्यगतोऽसौ चकास्ति न तु स्वगत इत्यम्भस्येव तदभावः । तस्माद्यत्र यथा प्रतीतिस्तत्र तथैवाभ्युपगमः संगच्छत इत्युभयस्या अबाधिताया: सद्भावादुभयत्रापि तदुपगमो युक्त एव । यथा च खेहो गुण: कथ्यते तथा तत्समानयुक्ति रूक्षत्वमपि गुणो गणनीयः । न रूक्षत्वं नाम मुणोऽस्ति स्नेहाभावे रुक्षत्वव्यवहार- १५ सिद्धेरिति चेत् । न । रूक्षताभावे स्नेहव्यवहारप्रसंगात्लेहस्याप्यभावापत्तेः । शीतोष्णम्पादिवत्म्पर्शनेन्द्रियतत्मेहम्य विधिमुखेन प्रतिभासागुणरूपतास्वीकारे रूक्षत्वस्यापि सास्तु । द्वयमपि चैतरम्पर्शविशेषरूपमेवेति स्नेहम्य म्पर्शात्पृथगभिधानमसंगतमेव । यदि लेहः स्पर्शविशेषरूप: स्यात्तर्हि चक्षुषा निरीक्षितमात्र एव तैलादौ १० स्निग्धोऽयमिति प्रतीतिन भवेदिति चेत् । नेयं चाक्षुषी प्रतीतिरपि त्वानुमानिकी । इराद्भासुररूपे निरीक्षिते, उप्योऽयं वहिरितिप्रतीतिवत् । यथा हि तादृशं रूपं तादृशम्पशक्निामावित्वेन समुपलब्धं पुनः क्वचिद्दश्यमानं तं गमयति तथात्र तैलं तथाभूतम्पर्शाबिनाभाविनिश्चितं तं गमयत्वेव । एवं चाम्य द्वीन्द्रियग्राह्यत्वमपि २५ व्यपाकृतमवगन्तव्यम् । योऽपि संस्कारस्त्रेधा न्यधाथि । तत्र न
"Aho Shrut Gyanam"