________________
परि. ५ सु. ८ ]
स्याद्वादरत्नाकर सहितः
1
न्तरायक्षयोपशम विशेष संगतस्थात्मन एव कारणत्वनिर्णयात् । उत्पन्ना एव मी मनः सापेक्षसमुत्पन्नसंवेदनेन वेद्यन्त इति । प्रयत्नस्य चैतेषु परिस्पन्दरूपत्वेन कर्मतैव युज्यते न गुणत्वम् । न चात्मनो व्यापकत्वात्कथं परिस्पन्द इति वक्तव्यम् । व्यापकत्वस्यात्मनि प्रागेव प्रतिक्षेपात्परिस्पन्दस्य च साधनात् । किं च यथात्मन्यमी गुणास्तथा भयमपि किं न गुणत्वेन निजगदे । अथ कुतोऽपि स्वस्यापार्यत्वंता भय ( स्वस्थावार्यत्वं तद्भयम् ) मिति बुद्धिविशेष एव भयं तर्हि - 'अप्राप्तप्राप्तिचिन्ता इच्छा । परापकारचिन्ता द्वेषः इत्येतावपि बुद्धिविशेषाचेव किं न स्याताम् । अथाप्राप्तप्रार्थनेच्छाप्रज्वलनात्मको द्वेष इति कथमनयोर्बुद्धिरूपता स्यादिति चेत् । तर्हि उद्रेकस्वरूपं १० भयमपि कथं तद्रूपं स्यात् । अथ बुद्धिरनयोः कारणं न तु तद्रूपावेवाम् । तथा हि--प्रथमं प्रमाता वस्तु जानाति, तत इच्छति, द्वेष्टि वा । तदितरत्रापि तुल्यम् । प्रथमं हि पाटच्चरादीञ्जानाति ततो विमेतीति । अथास्तु तज्ज्ञानपूर्वकता भवस्य न तु तावन्मात्रेणास्य बुद्धेर्भेदो युक्तः । पाटच्चरादिबुद्धितो बुद्धधन्तररूपस्यैवास्योत्पादिति चेत् । तदखिलं १५ तदितरत्राप्यन्यूनातिरिक्तमेव । अथ कथमिच्छाद्वेषयोर्बुद्धिरूपतां भवन्तो वर्णयन्ति । ततो भिन्नकारणजन्यत्वेनानयोर्युष्मन्मते वर्णनात् । ज्ञानवृत्तिक्षयक्षयोपशम जन्या हि बुद्धिमहनीयोदय कार्यों पुनरिच्छाद्वेषौ । न वा कारणभेदेऽपि कार्यस्याभेदो युज्यते । घटपटयोरप्यभेदापत्तेरिति चेत् । एवमेतत् । अत एव प्रसंगरूपतयैतदुपन्यासो मोहनीयकार- २०णकमपि चेद्भयं बुद्धिरूपतया प्रकञ्चते तदानीमिच्छाद्वेषौ वराकौ केनापराधेन परिभूयेते । तावपि हि बुद्धिरूपतया वण्यताम् । न चैवम् । ततस्तद्भयमपि गुणान्तरमेवेति स्थितम् । एवं शोकजुगुप्सादयोऽपि । सौगतं प्रति पुनरमीषां विज्ञानाभिन्नहेतुजत्वस्य हेतोः प्राक्पराकृतत्वात्कथंचिदतिरेकिणां सिद्धिः कृतैव । गुरुत्वमपि पदार्थानां पतन- २५. शक्तिरतीन्द्रियेति केचित् । सोऽपि यदि गुणो गण्यते तर्हि स्फोट
"Aho Shrut Gyanam".
९३७