________________
पारे. ५ मू. ८]
स्याद्वादरत्नाकरसहितः
भावापत्तेः । एतेन ‘यदि हि भिद्यमानवंशाद्यवयविद्रव्यस्य' इत्यादि प्रत्युक्तम् । योऽपि कारणाकारणविभागाद्विभागोऽभ्यधायि सोऽपि नोपपद्यते । करक्रियायां सत्यामवश्यमवयविनि क्रियायाः प्राक्प्रसाधनात्, इति कमंज एव विभागोऽस्ति न विभागजः । यदुक्तं 'परत्वमपरत्वं च' इत्यादि तत्र परत्वापरत्वे रूपादि च पदार्थ ः सहैवोत्पद्यते । न त्वपेक्षा ५ बुद्धिवशात्पश्चात् । तस्या द्वित्वादाविवाभिव्यञ्जकत्वेनैव व्यवस्थितेः । किं च कालापेक्षयोः परत्वापरत्वयोरपेक्षात्रुद्धिकाले कथमुत्पत्तिरुत्पद्यते । युवस्थविरपिण्डयोहि परापरकालप्रदेशाभ्यां संयोगम्तदुत्पादकोऽकथि। न च यदा देवदत्तम्यापेक्षाबुद्धिस्तदा तौ विद्यते यतस्ताभ्यां तत्संयोगः स्यात् । कालम्य नित्यत्वात्तदापि तौ स्त एवेति चेत् । ननु कालभ्य १० नित्यत्वे तयोरभाव एव भवेत् । ननु तदानी सत्तानित्यम्यैकरूपत्वेन देशासंभवात् । यौ तु कल्पितो देशौ तौ तदानीमसन्तावेवेति कथं ताभ्यां तसंयोगः स्यात् । अपि च परत्वापरत्ववन्मध्यममिति व्यवहारकारणं मध्यमत्वमपि किं न कक्षीक्रियते । ननु कुतः कारणादम्यो. त्पत्तिः स्यादिति चेत् । यत एव तदाधारभूतम्य पदार्थस्य । कुतो वा १५ परत्वापरत्वयोरप्युत्पादो निगद्यते । अपेक्षाबुद्धेनिमित्तात्परापरदिकालप्रदेशसंयोगादसमवायिकारणाचेति चेत् । न त्विदमप्यपेक्षाबुद्धेमध्यमदिकालप्रदेशसंयोगाचोत्पत्म्यते को दोषः । केवलमियमपेक्षाबुद्धिः संनिकृष्टासनिकृष्टोभयगोचरेति मध्यमौ दिक्कालौ न कौचिद्विवेत इति चेत् । किं मध्यस्थपदार्थदेशे तयोरसत्त्वान्नित्यव्यापकत्वात्तथा २० व्यवहाराभावाद्वा । नायः पक्षः । अनभ्युपगमात् । न द्वितीयः । परापरदिकालयोरप्यभावापत्तेः । न तृतीयः । मध्यमादिक्प्रदेशो मध्याहोऽयमिति दिकालप्रदेशायास्तच्यवहारदर्शनात् । यथा च मध्यमत्वमुपचरितमनयोस्तथा परत्वापरत्वे अपीति मध्यमत्वमपि वा गुणत्वेन स्वीकरणीयम् । परत्वापरत्वे अपि वा तत्त्वेन त्यज्यताम् । नान्तराव- २५ स्थातुं लभ्यते । शेषमनयोर्द्धित्वादिवढ्षणीयम् ! तदेव चैते ताथा
"Aho Shrut Gyanam"