________________
९३४
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ म. ८ वस्थैव न द्रव्यं वंशोऽपि दारुद्रव्यावस्थैव न द्रव्यमिति किं न स्यात् । वंशस्य द्रव्यत्वं त्वयापि स्वीकृतमिति चेत् । न केवलमस्यैव । विफणद्रव्यस्यापि । ननु विफणता
यदि द्रव्यं न तदा भावप्रत्ययेन तन्निर्दिश्यतेति चेत् । वंशोऽपि ५ यदि द्रव्यं तदा दारुद्रव्यस्य वंशतेति कथं भावप्रत्ययेन निर्दिश्यते ।
यथा च दारुद्रव्यपर्यायतामपेक्ष्य तथा निर्देशो द्रव्यत्वं पुनरपेक्ष्य वंश इति निर्देशस्तथाऽन्यत्राप्येकत्र विकणता । अन्यत्र तु विकगं द्रव्यमित्यभिधीयता को दोषः । ननु वंशस्य म्वकीयनवपुराणादिपाय
परम्परापेक्षया द्रव्यत्वं युज्यतां नाम । विफणद्रव्यस्य तु तत्कथमिति १० चेत् । नन्वत्रापि सन्त्येवोच्छासनिश्वासा अन्ततः प्रतिक्षणभाविनः
शुद्धपर्यायरूपा अर्थपर्यायात्तदपेक्षया तत्किं न भविष्यति । ततः सिद्धमिदं विफणद्रव्यावयवक्रिया द्रव्यारम्भकसंयोगविरोधिभागोत्पा. दिका नभोमागविभागकारिणी चेति सिद्धो व्यभिचारः । कथमेकैव
क्रियावयवविभागमाकाशावयवविभागमुत्तराकाशसंयोगं च कर्तुं शक्तेति १५ चेत् । तत्किमेकेन वस्तुनैकमेव कार्य कर्तव्यं, तथात्वे हि कथमे
कोऽपि प्रदीपस्तैलापहारं तिमिरसंहारं कजलभार स्वगोचरं ज्ञानं च कर्तुं समर्थः स्यात् । ततो विचित्रशक्तयो भावा विचित्राणि कार्याणि कर्तुमीशत एव । विकसत्कमलदलरूपो व्यतिरेकदृष्टान्तोऽपि साधना
व्यावृत्तः संकुचितकमलद्रव्यदलेषु क्रियाया द्रव्यारम्भकसंयोगविरोधि२० विभागोत्पादकत्वात्तद्विनाशेन विकस्वरत्कमलद्रव्यान्तरस्यैवोत्पत्तेः ।
कालात्ययापदिष्टता चास्य हेतोरनुमानबाधितप्रतिज्ञानन्तरं प्रयुक्तत्वात्। तथा हि विवक्षितावयवक्रिया, आकाशदेशेभ्यो विभागं करोति । क्रियात्वात्, यैवं सैवम् । यथाङ्गुलिक्रिया । तथा चेयं तस्मात्तथेति ।
न चात्र तथाविधविभागजनकत्वक्रियात्वयोः सहभावमात्रं न व्यासि२५ रिति वाच्यम् । व्यभिचारादर्शनात् । तदप्युपाघेरनुपलम्भात् ।
अन्यथा धूमादावपि कार्यकारणभावस्य शङ्कयमानौपाधिकत्वेन व्याय
"Aho Shrut Gyanam"