________________
परि. ५ स. ८] स्याद्वादरत्नाकरसहितः
९३३ निरालम्बन इति चेत् । कुतोऽस्योत्पत्तिः । वासनापरिपाकादिति चेत् । नीलादिप्रत्ययोऽपि तत एवास्तु । नीलादेर्विकल्पम्तत एवानुभवस्त्वर्थादिति चेत् । संयोगानुभवोऽपि तत एवास्तु । नास्त्येव संयोगरूपोऽर्थ इति कुतस्तदनुभवः स्यादिति चेत् । नीलादिरूपोऽर्थः कुतः स्यात् । प्रतिभासस्तु यथैकस्य तथान्यस्याप्यम्त्येव द्रव्यैकदेशत्वनिमित्तः संयोग- ५ प्रतिभास इति चेत् ! मैवम् । एकस्य देशस्य सौगतानामभावात् । द्रव्यनैरन्तयनिवन्धनोऽयमिति चेत् । अन्तराभावो यदि तुच्छस्तदा न किंचिदनेनोक्तं स्यात् । अथातुच्छस्तदा संयोगहेतुक एवायमुक्तो भवेत्, इति सिद्धः संयोगः । यस्तु चिरोत्पन्नस्य संयोगजः संयोगो न्यपादि । नायमवदातः । कर्म जत्वात्तम्प । हस्ताद्यवयवक्रियायां तद- १० विश्वग्भूतम्यावयविनोऽपि कथंचिक्रियायाः प्राक्प्रसाधितत्वात् । यदपि 'अप्राप्तिपर्विका' अइत्याचवादि तत्रापि यदि नैरन्तपरिणामपरित्यागेन सान्तररूपतया परिणतिर्विभागोऽभिधीयते तदा न विवादः । अन्यत्तु सर्व संयोगवद्वितर्कणीयम् । यस्तु विभागजो विभागः समगीर्यत नासो संगच्छते । ननूक्तं तत्सिद्धौ साधनम् । द्रव्यारम्भक- १५ संयोगविरोधिविभागोत्पादकत्वादिति । सत्यं किं त्वनै कान्तिकम् । यदा हि भुजगद्रव्ये विफणपरिहारेणोत्कणत्वमुपजायते तदा तावत्तदवयवेषु क्रियानभोभागेभ्यो विभागं करोतीति त्वयापि प्रतिपद्यते । सा च द्रव्यारम्भकसंयोगविरोधिविभागोत्पादिकैवेति कुतो नानेकान्तः । ननु भुजगद्रव्यमुभयदशायामपि तदेव । तथैव प्रत्यभिज्ञानादिति नाम्या . २० स्तादृशविभागोत्पादकत्वमिति चेत् । ताह बंशेऽपि पायमाने दारुद्रव्यं बंशदलदशायां तदेव तत एव हेतोरिल्यन्यत्रापि नाम्याम्तदुत्पादकत्वं स्यात् । तथा चासिद्धो हेतुर्भवेत् । वंशद्रव्यं तावद्विनष्टमेवेति चेत् । अन्यत्रापि विफणद्रव्यं विनष्टमेव । यदि तत्र तद्विनाशः कथं फणित्वेन प्रत्यभिज्ञानमिति चेत् । अन्यत्रापि यदि वंशविनाशः कथं २५ दारुरूपतया प्रत्यभिज्ञानमिति समानम् । ननु विफणिता फणिद्रव्या
"Aho Shrut Gyanam"