________________
परि. ५ सू. ५] स्याद्वादरत्नाकरसाहतः
७३३ यथैव हि पूर्वोत्तर विवर्तयोावृत्तप्रत्ययादन्योन्यमभावः प्रतीतस्तथा काञ्चनमृदाद्यनुगतप्रत्ययास्थितिरपि । ननु कालत्रयानुयाथित्वमेकस्थितिस्तस्याश्चाक्रमेण प्रतीतौ युगपन्मरणावधि ग्रहणं स्यात् । क्रमेण तु प्रतीतो न बुद्धिस्तथा तां प्रत्येतुं समर्था क्षणिकत्वादिति चेत् । तदप्यसंबद्धम् । बुद्धेः क्षणिकत्वेऽपि प्रतिपत्तुरक्षाणिकत्वात् । ५ प्रत्यक्षादिसहायो ह्यात्मैव ध्रौव्यात्मकत्वं बहिरन्तश्च समस्तवस्तूनां निश्चिनोति । यथैव हि घटकपालयोः सुखदुःखयोर्वा विनाशोत्पादौ प्रत्यक्षसहायोऽसौ निश्चिनुते तथा मृदात्मरूपतया स्थितिमपि न खलु घटादिसुखादीनां भेद एवावभासते न त्वेकत्वमित्यभिधातुं युक्तम् । एकत्वविकलम्य भेदस्य स्वप्मेऽप्यसंवेदनात् । न चाऽक्षणिकस्यात्मनोऽ- १० विसायकल्वे स्वगतबालतरुणवृद्धाद्यवस्थानामतीतानागतजन्मपरंपराया: समवस्तुविवर्तानां च युगपदेव व्यवसितिप्रसक्तिरिति वाच्यम् । ज्ञानसहायस्यैवात्मनोऽर्थाध्यवसायकत्वाशीकारात् । ज्ञानस्य च प्रतिबन्धकापगमानतिक्रमेण प्रादुर्भावान्नोक्तदोषानुषङ्गः । न च द्रव्यग्रहणेऽ. तीताद्यवस्थानं तम्मादभिन्नत्वाध्यवसायापत्तिरिति वाच्यम् । अभिन्न - १५ त्वस्य ग्रहणं प्रत्यनङ्गत्वात्। अन्यथा ज्ञानादिक्षगानुभवे सच्चेतनादिव - त्क्षणक्षयम्वर्गप्रापणशक्त्यादिव्यवसायानुषङ्गः । तम्माद्यत्रैवात्मनोऽज्ञानपर्यायप्रतिबन्धकापायस्तत्रैवा-यवसायकत्यनियमो नान्यत्रेत्यनवद्यम् । आत्मा प्रत्यक्षसहायोऽनन्तरातीतानागतपर्याययोरेकत्वं प्रतिपद्यत इति स्मरणप्रत्यभिज्ञानज्ञानसहायश्च व्यवहितपर्यायाद्येकत्वमवबुध्यते । स्मरण- २० प्रत्यभिज्ञानयोश्च प्रामाण्यं प्रागेव प्रसाधितम् । ननु स्मरणप्रत्यभिज्ञानयोः पूर्वोपलव्धार्थविषयत्वे प्रथमदर्शनकाल एवोत्पत्तिप्रसंगस्तेन सहैकविषयत्वेनाऽनयोरप्यविकलकारणत्वात् । न चैवं तस्मान्न ते तद्विषये। प्रयोगश्चात्र, यस्मिन्नविकलेऽपि यन्न भवति न तत्तद्विषयं यथा रूपेऽवि. कले तत्राऽभवच्छोत्रविज्ञानम् । प्रथमदर्शनकालेऽविकलेऽप्यर्थे न भवतश्च २५ स्मृतिप्रत्यभिज्ञाने इति । एतदपि युक्तिरिक्तम् । प्रथमदर्शनकाले
"Aho Shrut Gyanam"