________________
प्रमाणनयतत्त्वा लोकालङ्कारः
[ परि. ५ सू. ४
प्रत्ययो यदि वैसादृश्यान्तर हेतु कस्तदाऽनवस्था । स्वभावतश्चेत्तर्हि सर्वत्र वैसादृश्यकल्पनावैफल्यम् । न च सदृशपरिणामानामर्थवत्स्वात्मन्यपि समानप्रत्ययहेतुत्वेऽर्थानामपि तत्प्रसंग : प्रतिनियतशक्तिकत्वाद्भावानाम् । अन्यथा घटादेः प्रदीपात्स्वरूपप्रकाशोपलब्धिः प्रदीपेऽपि स्वरूपप्रकाश : प्रदीपान्तरादेव स्यात् । स्वकारणकलापादुत्पन्नाः सर्वेऽर्था विसदृशप्रत्ययविषयाः स्वभावत एवेत्यभ्युपगमे समानप्रत्ययविषया अपि ते तथा किं नाऽभ्युपगम्यन्ते । अकं प्रतीतिमपलप्य । प्रयोगश्चात्र, गौगौरित्यादिप्रत्ययो विशिष्टनिमित्तनिबन्धनो विशिष्टप्रत्ययत्वात् । य इत्थं स इत्थं यथा संप्रतिपन्नः । तथा चाड्यं तस्मा१० तथेति । यच्च विशिष्टं निमित्तं स सदृशपरिणाम एव । वासनादेनिमित्तान्तस्य प्रागेव प्रतिहतत्वादिति ।
७३२
५
तत्सामान्यं तिर्यगाख्यं प्रसिद्धं व्यक्तौ व्यक्तौ तुल्यधर्मस्वभावम् । यस्याभावात्प्रत्ययोऽत्रानुयायी न प्रादुःप्यात्सर्वसंवेदनीयः || ५७४ ||४|| अथ द्वितीयं सामान्यस्य भेदं सनिदर्शनं प्रकाशयन्नाह
१५ पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्व तासामान्यं कटकङ्कणाद्यनुगामिकाञ्चनवदिति ॥ ५ ॥
पूर्वापरपर्याययोः साधारणमेकं द्रव्यम् । द्रवति तांस्तान्पर्यायान्गच्छतीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंशस्तदूर्च्चतासामान्यमि२० त्यभिधीयते । कटककङ्कणाद्यनुगामिकाञ्चनवदिति तु निदर्शनं व्यक्तम् । एवं स्थासादिषु मृव्यादिकं स्वयमभ्यूह्यम् ।
ननु पूर्वापरपरिणामव्यतिरेकेणापरस्य तद्व्यापिनो द्रव्यस्याप्रतीतितोऽसत्त्वात्कथं तलक्षणमता सामान्यं सदिति
बौद्धः । नाऽसौ बुद्धिमान् । प्रत्यक्षत एवाऽर्था
ऊर्ध्वता सामान्यस्य सोपपत्तिकं मण्डनम् । नामन्वयरूपप्रतीतेः प्रतिक्षणभङ्गुरतया स्वप्नेऽपि तत्र तेषां प्रतीत्यभावात् ।
"Aho Shrut Gyanam"