________________
परि. ५ स. ४] स्याद्वादरत्नाकरसहितः वमर्शप्रत्ययहेतुत्वानुपपत्तेरितस्था कर्कादिव्यक्त्यनुभवेभ्योऽपि खण्डमुण्डादिव्यक्तिप्वेकपरामर्शप्रत्ययस्योत्पत्तिः स्यात् । अथ प्रत्यासत्तिविशेषात्खण्डमुण्डादिव्यक्त्यनुभवेभ्य एवास्योत्पत्तिापरव्यक्त्यनुभवेभ्य इति चेत् । ननु कोऽन्यः प्रत्यासत्तिविशेषोऽन्यत्र समानाकारानुभवात् । समानो ह्याकारः खण्डादिव्यक्त्यनुभवैरेवाऽनुभूतो ५ नाऽपरब्यक्त्यनुवरिति । न चैकप्रत्यवमर्शहेतुत्वेनाऽभिमता निर्विकल्पकबुद्धयः प्रसिद्धाः स्याद्वादिनामिति । कथं तद्धेतुत्वाच्यक्तीनामप्यभिन्नता । ततश्च वार्तमेतद्वार्तिके कीर्तितं कीर्तिना--
" एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी ।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥” इति । १० ततोऽबाधबोधाधिरूढत्वात्प्रसिद्धं सदृशपरिणामरूपं वस्तुभूतं सामान्यम् । तम्यानभ्युपगमे
" नो चेत् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥” इत्यस्य विरोधानुषङ्गः । रूपसाधर्म्यशब्देन सदृशपरिणामम्यैवा- १५ भिधानात् । अस्य च श्लोकस्याऽयमर्थः- यदि भ्रान्तिनिमित्तेन सदृशापरापरोत्पत्त्यादिना कारणभूतेन विकल्पबुद्धया नो संयोज्येत न समारोप्येत गुणान्तरं-- स्थिरत्वादि । वाशब्द इवार्थे । शुक्ताविव रजता. कारः संयोज्येत । कथं रजतरूपेण शुक्तिकारूपस्य यत्साघवें चाकचिक्यादि । तस्य दर्शनात् । एतदुक्तं भवति । यदि भ्रान्तिनिमित्तेन २० गुणान्तरं न समारोप्येत तदाऽनुमानादेः प्रमाणान्तरस्थ प्रत्यक्षदृष्टेऽर्थस्वभावे वैयर्थ्यं स्यात् । समारोप्यते च तत् । ततः समारोपव्यवच्छेद एव प्रमाणान्तरस्य फलमिति । ननु व्यक्तिवत्तत्समानपरिणामेप्वपि समानप्रत्ययस्यापरसमानपरिणामहेतुकत्वप्रसंगादनवस्था स्यात् । तमन्तरेणाऽप्यत्र समानप्रत्ययोत्पत्तौ पर्याप्तं खण्डादिव्यक्तौ समानपरि- २५ शामकल्पनयेति चेत् । तद्वैसदृशेष्वपि तुल्यम् । यतस्तेष्वपि विसदृश
"Aho Shrut Gyanam"