________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सू. ४
सामग्री । निकटदेशवर्तिनां चाऽसौ नास्तीति न निकटे तत्प्रतिमासनमिति समः समाधिः | अभ्युपगम्य चैतदुक्तम् । यावतोऽस्ति निकटे सामान्यस्य व्यक्ततरं प्रतिभासनं विशेषप्रतिभासनवत् । निकटे हि निम्बकदम्बादिव्यक्तिषु भासमानासु सुव्यक्तं वृक्षत्वं प्रतिभासते वृक्षोऽयं ५ वृक्षोऽयमिति । न चाऽयमनुगतप्रतिभासो बहिः साधारणनिमित्त निरपेक्षा घटते । प्रतिनियतदेशकालाकारत्वाभावप्रसंगात् । न च व्यक्तय एव तन्निमित्तम् । तासां भेदरूपतयाऽधिष्ठितत्वात् । तथाऽपि तन्निमित्तत्वे कर्कादिव्यक्तीनामपि गौर्गौरिति बुद्धिनिमित्तत्वानुषङ्गः । न चातत्कार्येभ्यो ऽतत्कारणेभ्यश्च व्यावृत्तिरेकप्रत्यवमर्शरूपैकार्थसाधने १० हेतुरत्यन्तभेदेऽपीत्यभिधातव्यम् । सर्वथा समानपरिणामानाधारे वस्तुन्यतत्कार्यकारणव्यावृत्तेरेवासंभवात् । न खलु चक्षुरादयस्तज्जननशक्तिलक्षणसमानपरिणाम विरहिणोऽपि रूपज्ञानलक्षणकार्यहेतवो न पुनः स्पर्शनादयो गुडुच्यादयो वा ज्वरोपशमनशक्तिलक्षणसमानपरिणामरहिता अपि ज्वरोपशमकार्यहेतवो न पुनर्दधित्रपुषादय इति शक्य१५ व्यवस्थम् । किंच, अनुगतप्रत्ययस्य सामान्यमन्तरेणैव देशादिनियमे - नोत्पत्तौ व्यावृत्तप्रत्ययस्यापि विशेषमन्तरेणैवोत्पत्तिः स्यात् । शक्यं हि वक्तुमभेदो विशेषेऽप्येकमेव ब्रह्मादिस्वरूपं प्रतिनियता नेक नीलाद्याभासनिबन्धनं भविष्यतीति किमपररूपादिस्वलक्षणपरिकल्पनया । ततो रूपादिप्रतिभासस्येवाऽनुगतप्रतिभासस्याप्यालम्बनं कल्पनीयमित्यस्ति २० वस्तुभूतं सामान्यम् । एककार्यतासादृश्येनैकत्वाध्यवसायो व्यक्तीनामित्यप्यचारु । कार्याणामभेदासिद्धेर्वाहदाहादिकार्यस्य प्रतिव्यक्ति भेदात् । तत्राऽप्यपरैककार्यतासादृश्येनैकत्वाध्यवसायेऽनवस्था । ज्ञानलक्षणमपि कार्यं प्रतिव्यक्ति भिन्नमेवेति । ज्ञानलक्षणैककार्यतासादृश्येनापि व्यक्तीनां नैकत्वाध्यवसायः संभावनीयः । अनुभवाना२५ मेकपरामर्शप्रत्यय हेतुत्वादेकत्वं तद्धेतुत्वाच्च व्यक्तीनामप्यभिन्नत्वमित्यु - पचारोऽपि श्राद्धिकावधार्य एव । अनुभवानामप्यत्यन्तवैलक्षण्येनैकप्रत्य -
७३०
" Aho Shrut Gyanam"