________________
परि. ५ सू. ४]
स्याद्वादरत्नाकरसहितः
(१२२
जनकत्वात् । प्रत्यवमर्शस्य तज्जनकत्वस्य च प्रतिव्यक्ति भेदेनैकत्वासंभवात् । न खलु य एव शाबलये गोप्रत्यवमर्शस्तजनकत्वं च तदेव बाहुलेयेऽपि । तयोरेकव्यक्तिवद्भेदाभावप्रसक्तेः । नाप्येकव्यावृत्तेः । तस्या बहिरन्तर्विकल्पानतिक्रमात् । तत्र सकलव्यक्तिप्वेकव्यावृत्ते. बहिः सद्भावे सामान्यरूपता दुर्निवारा । आन्तरत्वे तु तस्या बहिराधा- ५ रत्वाभावतः कथमतो बाह्यार्थस्य सजातीयत्वसिद्धिः । कथं वा बहीरूपतयावभासनमम्याः । नान्तर्बहिर्वा सेत्यपि स्वाभिप्रायप्रकटनमात्रम् । तथा हि-तथाभूतं व्यावृत्तिस्वरूपं किंचित्, न किंचिद्वा । न किंचिच्चेत्, कथं सजातीयत्वनिबन्धनम् । किंचिच्चेत् । नूनमन्तबहिर्वा तेन भाव्यम् । तत्र च प्रतिपादितदोषानतिक्रमः । किंच , इदं सजातीयत्वं समाना. १० कारलक्षणम् । तच्च स्वयमसमानाकारस्य वस्तुनः स्यात्समानाकारस्य वा । यदि स्वयमसमानाकारस्य तदा कथमन्यव्यावृत्तावपि तस्य समानाकारता भवेत् । गोगजयोरपि महिघ्यादिव्यावृत्तौ समानाकारत्वप्रसक्तेः । अपि च मूर्ताद्धटायथा व्यावर्तते ज्ञान तथा पटोऽपि । ततश्चाऽमूर्तत्वं द्वयोः समानो धर्मः स्यात् । परस्पराश्रयप्रसक्तिश्च । १५ अन्यतो व्यावृत्त्या हि समानाकारत्वात्तस्माच्चान्यतो व्यावृत्तिरिति स्वयं समानाकारस्य तु वस्तुनोऽन्यतो व्यावृत्त्या समानाकारत्वकल्पनावैयर्थ्यम् । पराभ्युपगमप्रसंगश्च स्यात् । स्वयं समानाकारताया एव वस्तुनि सामान्यत्वेन स्याद्वादिभिः स्वीकारात् । ननु यया प्रत्यासत्त्या केचन भावाः स्वयं सदृशपरिणाम बिभ्रति २० तयैव स्वयमतदात्मका अपि सन्तस्तथा कि नाऽवभासेरनिति चेत् । तदप्यनुचितम् । चेतनेतरभेदाभावप्रसंगात् । यथैव हि प्रत्यासत्त्या चेतनेतरस्वभावान्भावाः स्वीकुर्वन्ति तयैव स्वयमतदात्मका अपि सन्तस्तथाऽवभासेरन्नित्यपि ब्रुवाणस्य ब्रह्माद्वैतवादिनो न वदनं वक्रीभवेत् । चेतनेतरव्य .... .... .... .... .... .... .... .... .... २५ .... स्तीति । तथा तदुत्पत्तिर्हि सामान्यप्रतिभासस्य जनिका दूरदेश
"Aho Shrut Gyanam"