________________
७२८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सु. ४ रिक्तस्य तिर्यक्सामान्यस्य प्रत्यक्षादिप्रमाणमाहात्म्यतः प्रसिद्धम्वरूपत्वेन तल्लक्षणप्ररूपणम्योपपन्नत्वात् । न खलु समानधर्मसंबन्धित्वस्वभावः सदृशपरिणामः पदार्थेषु प्रत्यक्षेणानुभूयते । सकलविलक्षणस्वलक्षणस्य स्वामदशायामप्यननुभूतेः । अपि च प्रतिभासप्रभावादेव सर्वत्र वस्तु. व्यवस्थितिः । प्रतिभासश्च गोपिण्डेषु खण्डमुण्डादिविलक्षणाकारेणेव गौगौरित्यनुवृत्ताकारणाऽपि संवेद्यते । न चान्याकारेऽपि वन्तुन्यन्या. कारेण प्रतिभासनमित्यभिधानीयम् । एवं हि शुक्ले श्यामप्रतिभासप्रसक्तितः प्रतिनियतपदार्थव्यवस्थितेरुच्छेदः स्यात् । ततोऽनुवृत्त
प्रतिभासाद्वस्त्वप्यनुवृत्तधर्मान्वितमित्यकामेनापि शाक्येन स्वीकर्तव्यम् । १० विजातीयव्यावृत्त्यालम्बनत्वे चानुवृत्तप्रतिभासम्य गोगीरित्युल्लेखेन विधि
प्रधानतया प्रवृत्तिर्न भवेत् । यथा च विजातीयपरावृत्तं वस्तुनः स्वरूपं तथा सजातीयपरावृत्तमपि । तथा च तद्दर्शनानन्तरभाविविकल्पनां विजातीयव्यावृत्त्याकारोल्लेखित्वे तदभेदात्सजातीयव्यावृत्याकारोल्लेखि
त्वमपि स्यात् । न च सजातीयविजातीयव्यावृत्त्योः स्वलक्षणस्रोत १५ भेदः संभवति । अवस्तुत्वान्निरंशत्वाञ्च । नापि प्रतिनियतव्यावृत्ति
लक्षणजात्यवभासे प्रतिनियमहेतुरस्ति । किंच तात्त्विकसामान्यानभ्युपगमे सजातीयत्वस्याप्यभावः स्यात् । तथा हि-सजातीयत्वमर्थानां किमेकार्थक्रियाकारित्वात् , एकप्रत्यवमर्शजनकत्वात् , एकव्यावृत्तेर्वा
भवेत् । न तावदेकार्थक्रियाकारित्वात् । वाहदोहाद्यर्थक्रियायाः प्रतिवि२० शेषं भिद्यमानत्वेनैकत्वानुपपत्तेः । तस्याश्च कादाचित्कत्वात्तामकुर्वाणस्य
सजातीयत्वाभावः स्यात् । ततश्चक्षुषा संबद्धेऽपि व्यक्तिविशेषे गौगारित्यनुवृत्ताकारा प्रतीतिर्न भवेत् । एकार्थक्रियाकारित्वं च यदि सर्वस्वलक्षणेष्वेकमनुस्यूतं स्वीक्रियते तदा सिद्धं तदेव सामान्यम् ।
अथ विकल्पारोपितं तदस्माकमपि सिद्धमेवेति चेत् । मैवम् । विक२५ ल्पस्यार्थागोचरत्वेनार्थेष्वर्थक्रियाकारित्वस्यैकत्वेनारोपणासामर्थ्यात् ।
तन्नैकार्थक्रियाकारित्वादर्थानां सजातीयत्वं युज्यते । नाप्येकप्रत्यवमर्श
"Aho Shrut Gyanam"