________________
७२७
परि. ५ सू. ४] स्याद्वादरत्नाकरसहितः . ७२७ प्रतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं शब
लशाबलेयादिपिण्डेषु गोत्वं यथेति ॥ ४॥ प्रतिव्यक्ति- व्यक्तिं व्यक्तिमधिश्रित्य । तुल्या समाना परिणतिस्तिर्यक्सामान्यमुच्यते । शबलशाबलेयादिपिण्डेषु गोत्वं यथेति तु स्पष्टम् ।
शौद्धोदनीयमतवासितबुद्धययोऽथ
व्याकुर्वते किमिदमीदृशमार्जवं वः ।। सामान्यस्वरस्वरो....रुहिणीसमानं
यलक्ष्यतेऽत्र परिमुच्य विचारवीथीम् ।। ५७१ ॥ तथा हि- शबलशाबलेयादिव्यक्तिव्यतिरिक्तस्य सामान्यस्य प्रतीति- १०
पथाननुयायित्वेन वन्ध्यास्तनन्धयस्येवाऽसत्त्वाव्यक्तिव्यतिरिक्त सामान्यमिति मतस्योपपादनपूर्वक दनुपपन्नमेवेदं तल्लक्षणप्ररूपणम् । ननु सामान्य
खण्डनम् । विनाऽनुगताकारायाः प्रतीतेः कुत उत्पाद इति चेत् । विजातीयव्यावृत्तेरिति ब्रूमः । न च विजातीयव्यावृत्तिजन्यायाः प्रतीतेः सकाशात्कथं बहिरर्थं प्रति प्रतिपत्तः प्रवृत्तिरिति प्रेयम् । दृश्य. १५ विकल्पयोरेकत्वाध्यवसायात्तदुपपत्तेः । एकत्वाध्यवसायश्च तयोर्दर्शनानन्तरमुत्पद्यमानस्य विकल्पस्य दर्शनेन सह यद्भेदाग्रहणं तहारको भेदाग्रहस्तम्माच्च विकल्पव्यापारतिरस्कारेण प्रया गृहीतमिदमित्येवंरूपात्प्रतिपत्ता बहिरर्थे प्रवर्तते । सामान्यलक्ष्मोदितिरित्थमेषां न क्षोदमुद्रामधिरोहतीह । २० अलं तदस्याः परिशीलनेन मार्गेऽसतां यन्मतयो रमन्ते ।। ५७२ ।। शाक्यसिंहतनयः प्रजल्पितं जातिलक्षणनिषेधतत्परम् । सर्वमेतदनुभूतिपीडितं पण्डितस्तदिह कः समाश्रयेत् ।। ५७३ ।।
तथा हि-यत्तावदजल्पि शबलशाबलेयादिव्यक्तिव्यतिरिक्तस्येत्यादि तन्न निरवद्यम् । प्रतिव्याक्ति सदृशपरिणामलक्षणस्य' कथंचित्तयंति- २५
"Aho Shrut Gyanam"