________________
७२६
[ परि. ५ सू. २
अनुगतविशिष्टाकार प्रतीतिविषयत्वात्, प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूप परिणत्यार्थक्रियासामर्थ्यघटनाच्चेति ॥ २ ॥
२०
प्रमाणनयतत्वालोकालङ्कारः
अनुगताकारा - अनुवृत्तस्वभावा गौगौरित्यादिप्रतीतिः । विशिष्टाकारा- व्यावृत्तस्वरूपा शवलः श्यामल इत्यादिप्रतीतिः । तयोर्विषयो गोचरस्तस्य भावस्तत्त्वं तस्मादिति प्रथमो हेतुः । अनेन तिर्यक्सामान्यस्य गुणाख्यविशेषलक्षणानेकान्तात्मकं वस्तु समर्थितम् । प्राचीनोतराकारयोः प्राक्तनाग्रेतनस्वभावयोर्यथासंख्येन परित्यागोपादाने परि१० हारावासी ताभ्यामवस्थानं स्थितिस्तदेव स्वरूपं यस्याः । सा चाऽसौ परिणतिश्च परिणामस्तया कृत्वा यदर्थक्रियासामर्थ्यं वस्तुनः कार्यका - रणशक्तिस्तस्य घटनादुपपत्तेरिति द्वितीयो हेतुः । एतेन पुनरूतासामान्यपर्यायाख्यविशेषस्वरूपाने कान्तात्मकं वस्तु प्रसाधितं भवति । चकारोऽत्रानुक्तसमुच्चयार्थः । ततः सदसदाद्यनेकान्तसमर्थक हेतवोऽपि १५ सदसदाकारप्रतीतिविषयत्वादयः सूचिताः । ते च यथावसरं विस्तरेण प्रकाशयिष्यन्त इति ॥ २ ॥
इदानीमादावुद्दिष्टं सामान्यं प्रकारतः प्ररूपयन्नाह-
सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्ध्वता सामान्यं चेति ॥ ३ ॥
तिर्यगुल्लेखिनाऽनुवृत्ताकारप्रत्ययेन गृह्यमाणं तिर्यक्सामान्यम् । ऊर्ध्वमुल्लेखिनाऽनुगताकारप्रत्ययेन परिच्छिद्यमानमूर्ध्वता सामान्यं च । चः समुच्चये || ३ ||
तत्राद्यभेदस्य स्वरूपं सोदाहरणमुपदर्शयन्नाह-
१ सू. ५१३.
" Aho Shrut Gyanam"