________________
७३४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ५ स्मरणप्रत्यभिज्ञानजनककारणान्तरासंभवेनाऽर्थस्याऽविकलत्वासिद्धेः । स्मरणस्य हि संस्कारप्रबोधोऽपि कारणम् । संस्कारश्च तदर्शनकाले नास्तीति कथं तदुत्पत्तौ तदर्थस्याऽविकलता। प्रत्यभिज्ञानस्याऽप्युत्पत्ती
वर्तमानकालीनं दर्शनं पूर्वदर्शनाहितसंस्कारप्रबोधप्रभवस्मृतिश्चाऽर्थस्य ५ सहकारिकारणम् । ते च तदा न त इति कथं तत्राऽप्यर्थस्या विकलता !
अथ मतमात्मनः स्वयमतीताद्यर्थग्रहणसामर्थे स्मरणाद्यपेक्षावैयर्थ्यम् । तदसामध्ये वा नितरां तद्वैयर्थ्यम् । तदपि वार्तम् । यतः स्मरणादिरूपतया परिणतिरेवात्मनोऽतीताद्यर्थग्रहणसामर्थ तत्कथं तद्
पेक्षावैयर्यम् । ततो निराकृतमेतद्यदुच्यते परैः " पूर्वोत्तरक्षण१० योरग्रहणे कथं तत्र स्थास्नुताप्रतीतिः" इति । आत्मना तयो
ग्रहणसंभवात् । परेषां तु तयोरप्रतीतौ कथं मध्यक्षणम्य तत्राऽस्थास्नुता. प्रतीतिरिति चिन्यम् । पूर्वक्षणदर्शनाहितसंस्कारस्य प्रतिपत्तुमध्यमक्षणदर्शनात्तत्क्षणस्मृतिः । तस्याश्च स इह नास्तीत्यस्थास्नुतावगमोऽ
प्येवं किं न स्यात् । ननु चाऽस्थास्नुता पूर्वोत्तरक्षणयोर्मध्यक्षणेऽभावः । १५ तस्य वा तयोऽसौ । अभावश्च तदात्मकत्वात्तद्हणेनैव गृह्यते । तदप्प
वद्यम् । तदप्रतीतौ तत्राऽस्य, अत्र वा तपोनिषिद्धप्रतीतेरप्यसंभवात् । न ह्यप्रतिपन्नघटस्यान घटो नास्तीति प्रतीतिरम्ति । कथं चैवं स्थास्नुताऽपि न प्रतीयेत । साऽपि हि पूर्वानरक्षणयोर्मध्यक्षणे कथंचित्सद्भाव
स्तस्य वा तत्राऽसौ ! स च तदात्मकत्वात्तद्रहणेनैव गृह्येत । ननु १० स्थास्नुताऽर्थानां नित्यतीच्यते । सा च त्रिकाल्यपेक्षा । तदप्रतिपत्ती
च कथं तदपेक्षनित्यताप्रतिपत्तिरिति चेत् । तदपि न प्रशस्तम् । वस्तुस्वभावभूतत्वेनाऽन्यानपेक्षत्वान्नित्यतायास्तथाभूतायाश्वास्याः प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन प्रतिपादनात् । न खलु स्वयं नित्यता
रहितस्य त्रिकाल्याऽसौ क्रियते । अनित्यतावत् । न हि वर्त२५ मानकालेनाऽनित्यता क्रियते । तस्य त्वन्मतेऽनासत्त्वात् । सत्त्वे वाऽस'
वन्यनित्यः स्वीकर्तव्य इति । तदनित्यत्वस्याऽप्यपरेण कालेन करणेऽ
"Aho Shrut Gyanam"