________________
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ५ मू. ८
द्रव्याश्रयीत्यादि पुनरित्थं तज्ज्ञापयति । द्रव्यं तूभयथा । द्रव्याश्रितमनाश्रितं च ! तथा सर्वं कर्म । आत्रेयो व्याख्यातवान्– 'नित्यमस्याश्रयः पारतन्त्र्यं द्रव्ये ' इति द्रव्याश्रयी । द्रव्याश्रयीत्यतिशायने मत्वर्थीयः । तेनैतव्याश्रितम् । न तु सर्वव्याश्रितमाकाशकालदिगात्मनामक्रियत्वात् । गुणा अस्य सन्तीति गुणवान् न गुणवान् अगुणवानित्यनेन द्रव्याद्वैधयं दर्शयति । संयोगाश्च विभागाश्च संयोगविभामाः । तेषु संयोगविभागेष्वकारणं किं सर्वथा । न । किं तीनपेक्षः । किमुक्तं भवति । सापेक्षः कारणमिति । किं सर्वो गुणो
न किं तर्हि संयोगविभागावेव । कथं संयोगस्तावत्संयोगे कर्तव्ये १० द्रव्योत्पत्तिमपेक्षते । कस्मात् । संयोगजसंयोगसमवायिकारणत्वा:
कार्यद्रव्यम्य । तथा हि-तन्त्वोराकाशेन सह यः संयोगः स द्वितन्तुकाकाशसंयोगे कर्तव्ये द्वितन्तुकलक्षणस्य तन्त्वोः कार्यद्रव्यस्योत्पत्तिमपेक्षते । तथा कारणयोवंशदलयोविभागोऽपि स किं यम्य वंशदल
स्याकाशदेशेन विभागमभिनिर्वतयिष्यन्वंशविनाशमपेक्षते । कस्मात् । १५ अविनष्टेऽस्वातन्त्र्यात् । स्वतन्त्रावयववृत्तिर्हि विभागो विभागमारभते
न तु कार्यवद्द्यवयववृत्तिरिति । व्यवच्छेद्यव्यवच्छेदकभावं च विशेषणानामेवं निरदीदिशत् । द्रव्याश्रयी गुण इत्येतावदस्तु । मा भूदगुणवान् । संयोगविभागेष्वकारणमिति । न कार्यद्रव्ये प्रसंगात् ।
कार्यद्रव्यमपि द्रव्याश्रयि न च गुण इति तद्व्यवच्छेदार्थमगुणवानि२० त्यन्यगुणवान् । गुण इत्येतावदस्तु । माभूपाश्रयी संयोगवि
भागेष्वकारणमिति । न । कर्मत्वे प्रसंगात् । कर्मत्वमप्यगुणवत् । न च तद्रुण इति तब्यवच्छेदार्थ द्रव्याश्रयीति । द्रव्याश्रयी अगुणवान्गुण इत्यस्तु, मा भूत्संयोगविभागेष्वकारणामिति । न । कर्मणि
प्रसंगात् । कर्मापि द्रव्याश्रयि अगुणवत् । न च तद्गुण इति २५ तद्व्यवच्छेदार्थं संयोगविभागेप्वकारणमिति । संयोगविभागे
प्वकारणम्, इत्येतावदस्तु मा भूहव्याश्रयी अगुणवा
"Aho Shrut Gyanam"