________________
परि. ५ सू. ८ स्थाद्वादरत्नाकरसहितः निति । कस्मात् । द्रव्यकर्मणोविभागसंयोगकारणत्वात् । कर्म खलु स्वाश्रयमाश्रयान्तराद्विभज्याश्रयान्तरेण संयोजयतीति द्रव्यकर्मणोविभागसंयोगकारणत्वं तद्विपरीतः संयोगविभागेष्वकारणं गुण इत्युक्ते न कचित्प्रसंगः । तस्माद्व्याश्रयी अगुणवानिति नाभिधेयमिति न हेतुः । विशेषणार्थत्वाव्याश्रयीत्यभिधानस्य । द्रव्याश्रयीत्य- ५ भिधानं हेतुविशेषणार्थमुपादीयते । कथं यथा गम्येत रूपादयः केनचिजा .... .... .... .... .... .... .... .... .... ....प्रकृतत्वात् । अथानेन सविशेषणेनानुमानेन गुणत्वसामान्य रूपादिषु प्रसाध्य तद्विशिष्टानां तेषां संयोगविभागेप्चित्यादिलक्षणमाख्यायत इति चेत् । तदचतुरस्रम् । यतो यद्यमुनोऽनुमाना- १० गुणत्वेन प्रसिद्धा रूपादयस्तदा किमपरेण सिद्धोपस्थायिना लक्षणेन कर्तव्यम् । यच्चोक्तम् ' अगुणवानिति स्वरूपोपवर्णनमेतत् ' इत्यादि तत्रेदानी बहुतरमस्य स्वरूपमुपवर्णनीयं भवेदद्रव्यत्वमकर्मत्वमविशेषत्व. मित्यादीति न किंचिगुणलक्षणमुपपद्यते । येऽप्यमी तल्लक्ष्यभूता रूपरसगन्धम्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वनुद्धिमुख- १५ दुःखेच्छाद्वेषप्रयत्नगुरुत्वद्वत्वस्नेहसंस्कारधर्माधर्मशब्दस्वरूपाः ‘रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागों परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः' इति कणादवचनात् । 'चकारेण येऽत्रानुक्ता गुणत्वेन च लोके प्रसिद्धा गुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दास्ते सप्त सूच्यन्ते' इति तयाख्या- २० नाञ्च चतुर्विंशतिर्गुणा गीयन्ते । तेऽपि न समगंसन्त । तत्समतायास्तेषां संख्यायाः स्वरूपस्य च विचार्यमाणस्यानुपपत्तेः । तथा हि-- संख्या तावद्विदितैव । स्वरूपं तु रूपत्वाद्यभिसंबन्धः । रूपं चामीषु चक्षुरिन्द्रियग्राह्यं पृथिव्युदकज्वलनवृत्ति । रसो रसनेन्द्रियावसेयः
१. द. १.११६। २ एतस्सदृशं वै. द. उपस्कारे विद्यते। परमुपस्कारकार श्तद्ग्रन्यकृतोऽर्वाचीनतरः ।
"Aho Shrut Gyanam"