________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स. ८ देवदत्तविशेषगुणकारितमित्यत्र च विशेषशब्दस्य वैयर्थ्यम् । देवदत्तगुणकारितमित्येतावतैवादृष्टस्य क्रियाहेतुगुणत्वसिद्धेः । विशेषणासिद्धत्वं चास्य हेतोर्यत एकद्रव्यत्वमेकस्मिन्द्रव्ये समवायित्वमुच्यते । तच्चायुक्तम् । समवायस्य निषेत्स्यमानत्वात् । यतूक्तं ५ ' नाप्येकद्रव्यत्वमसिद्धमेकद्रव्यमदृष्टं विशेषगुणत्वाच्छब्दवत् ' इति तत्रादृष्टशब्दयोः पौगलिकत्वेन साधयिष्यमाणत्वाद्धेतोरसिद्धिः । दृष्टान्तस्य साधनवैकल्यं च । एकद्रव्यत्वस्यकत्र द्रव्ये समवायरूपस्य शब्दे प्रसिद्धेः । गुणरूपम्य चास्य सतः क्रियाहेतुत्वं किं देवदत्त.
शरीरसंयुक्तात्मप्रदेशे द्वीपान्तरवर्ति .... .... .... .... १. नत्वात्कलशादिवत् । न हि कलशादिरचेतनात्मको ज्ञाताहमिति
प्रत्येति । चैतन्ययोगाभावादसौ न तथा प्रत्येतीति चेत् । न । अचेतनस्यापि चैतन्ययोगाच्चेतनोऽहमिति प्रतिपत्तेनिरस्तत्वात् । एवं चात्मा स्यादभिन्नः स्वबुद्धेः संसिद्धोऽयं शुद्धयुक्तिप्रसादात् । हंहो तस्माद्योगपक्षप्रवीणा: कक्षीकार्य नात्र जाडयं कदाचित् ।।६८१॥ १५ ये तु सौगतमतावलम्बिनः शेमुपीक्षणकदम्बकात्पृथक ।
नाभ्यमंसत पुमांसमग्रतस्तत्पराकरणमातानिप्यते ॥ ६८२ ॥ मनस्यपि विप्रतिपत्तित्रयम् । नित्यत्वे निरंशत्वेऽगुपरिमाणत्वे च ।
___ तत्र नित्यत्वं प्रोक्तश्या निरसनीयमनुदिशा । विज्ञानवादातिरिक्तं पुरुषमनङ्गीकुर्वतां बौद्धानां ननु कथमस्य नित्यत्वनिरासः । तथा हि-मनो
वजन नित्यमस्पर्शत्वाद्वयोमवदित्यतस्तन्नित्यमेव सिध्यति । तदसत् । यस्मादतः कथंचित्सर्वथा वा तन्नित्यत्वं साध्येत । प्रथमे सिद्धसाधनम् । द्वितीये साध्यविकलो दृष्टान्तः । सर्वथा नित्यत्वस्य व्योमन्यप्यसिद्धेः । अथास्थानित्यतायामारम्भकं कारणं
विजातीयं सजातीयं वा भवेत् । न विजातीयम् । तस्यारम्भकत्वा. २५ संभवात् । विजातीयानां नारम्भकत्वमित्यभिधानात् । नापि सजाती
"Aho Shrut Gyanam"