________________
परि. ५.८ ]
स्याद्वादरत्नाकरसहितः
द्याकर्षण हेतोः प्रयत्नस्यापि देवदत्तविशेषगुणस्य परं प्रत्यसिद्धत्वात् । साध्यविकलता चात्र दृष्टान्तस्य । एतेन देवदत्ताङ्गनाङ्गादिकमित्यपि प्रत्युक्तम् । उक्तदोषाणां तुल्यत्वात् । यतूक्तं ' अदृष्टं स्वाश्रयसंयुक्त आश्रयान्तरे कर्मारभते ' इत्यादि । तत्र हेतोः कालात्ययापदिष्टत्वम् । प्रत्यक्षबाधितपक्षानन्तरप्रयुक्तत्वात् । प्रत्यक्षेण हि देशान्तरवर्तिदेव - ५ दत्ताङ्गनाङ्गमणिमौक्तिकादिभिरसंयुक्त एवात्मानुभूयते । अथानेनैवानुमानेन प्रत्यक्षं बाधिष्यत इति कुतस्तत्रापि प्रकृतदोषावकाशः स्यात् । अथानन्यथासिद्धं तत्र प्रत्यक्षमिति तेनैवानुमानं बाध्यते । तर्हि प्रकृतेऽपि तदेवमेवेति तेनैवानुमानं बाध्यताम् । अथ तावत्यात्मप्रदेशे प्रत्यक्षप्रमासमवायात्तथा प्रतीतिः । नैवम् । आत्मनो निर्देशस्य त्वया १० स्वीकारात् । कल्पितत्वे तु प्रदेशस्य सर्वथा प्रतीत्युत्पत्तिरेव न स्यात् । कल्पितामौ माणवके पावकादिवत् । न च समवायः प्रतीतौ कारणं कुम्भादावसमवेताया अपि प्रत्यक्षप्रमायास्तत्प्रत्यायकत्वात् । अथेन्द्रियार्थसन्निकर्षेण तद्विषयतया प्रत्यक्ष प्रमोत्पादना कुम्भादिप्रतीतिः । नन्वेवं ब्रुवता त्वया स्वयमेव समवायस्य १५ प्रतीतौ कारणत्वमपन्हुतम् । किं च एवमप्यात्मनः संनिकर्षेणात्मगोचरतया प्रत्यक्ष मोत्पादनात्कथं न व्याप्यात्मप्रतीतिर्जायते । ननु प्रदेश वृत्तिरेवात्ममनः संनिकर्ष इति तत्रैव तामुत्पादयितुमीशस्तर्हि कुम्भाद्यवयविन्यपि परिपूर्णप्रत्यक्षं मोत्यादि । सर्वं सर्विकया संनिकर्षस्य तत्राप्यभावात् । मध्यपरभागावस्थितावयविना नयन- २० रश्मीनां संयोगाभावात् । तस्मात्तावन्मात्रादेवात्मनस्तथा प्रत्यक्षोत्पतिरिति सिद्धं हेतोः कालात्ययापदिष्टत्वम् । विशेष्यासिद्धत्वं च । अष्टे पोद्गलिकत्वप्रतिपादकप्रमाणस्य चक्ष्यमाणत्वात् गुणत्वात् सिद्धेः । तेनैव च प्रमाणेन बाधितपक्षत्वादद्मेरूर्ध्वज्वलनमित्याद्यनुमानमपि नोत्थातुं शक्तम् । कार्यत्वे सति तदुपकारकत्वादितिहेतु- २५ श्राञ्जनतिलकादिसामर्थ्यसमाकृष्यमाणकामिनीप्रमुखपदार्थैर्यभिचारी |
3
" Aho Shrut Gyanam"
५८
W
९०९