________________
२०८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ किं च । यथा तद्विशेषगुणेन प्रयत्नाख्येन समाकृष्टास्तं प्रत्युपसर्पन्तो प्रासादयः समुपलभ्यन्ते तथा नयनाञ्जनादिद्रव्यविशेषेणापि समाकृष्टाः स्त्र्यादयस्तं प्रत्युपसर्पन्तः समुपलभ्यन्त एव । ततः किं प्रयत्नसधर्मणा केनचिदाकृष्टाः पश्चाद्य उत नयनाञ्जनादिसधर्मगेति ५ संदेहः । शक्यं ह्येवमनुमानं रचयितुं परेणापि, नयनाञ्जनादिसधर्मणा, विवादगोचरचारिणः पश्वादयः समाकृष्टा देवदत्तं प्रत्युपसर्पन्ति तं प्रत्युपसर्पणवत्त्वाद्वनितादिवत् । अथ तदभावेऽपि प्रयत्नादप्युपसपणदृष्टेरनै कान्तिकत्वमस्य प्रयत्नसधर्मणो गुणस्याभावेऽप्यञ्जनादेरपि
तद्दष्टेस्त्वदीयहेतोरपि किं नानै कान्तिकत्वम् । अथाञ्जनादावनुमीय१० मानस्य प्रयत्नसधर्मणोऽदृष्टाख्यस्य हेतोः सद्भाबादव्यभिचासे, अन्य
त्राप्यञ्जनादिसधर्मणोऽजुमीयतानस्य सद्भावेनाव्यभिचार एव । तत्र प्रयत्नसामर्थ्याददृष्टस्य वैफल्येऽन्यत्राप्यञ्जनादिसामर्थ्यात्तद्वैफल्य समानम् । अथाञ्जनादेरेव तद्धेतुत्वे सर्चस्याञ्जनादिमतः स्याद्याकर्षण
प्रसक्तिः । न चाञ्जना दौ सत्यप्यविशिष्टे तद्वतः सर्वान्प्रति तदाक१५ र्षणमवसीयते । ततो यद्वैकल्यात्तन्नाकृप्यते तदपि कारणं नाञ्जनादि
मात्रमिति । तदेतत्प्रयत्नकारणेऽपि समानम् । न हि सर्व प्रयत्नवन्तं प्रति ग्रासादय उपसपन्ति । तदपहारादिदर्शनात् । ततोऽत्राप्यन्यत्कारणमनुभीयताम् । अन्यथा न प्रकृतेऽप्यविशेषात् । ततः प्रयत्न
वदञ्जनादेरपि तं प्रति तदाकर्षणहेतुत्वात्कथं न संदेहः । अञ्जनादे २० स्त्र्याधाकर्षणं प्रत्यकारणत्वेन तदर्थिनां तदुपादानं स्यात् । न च
दृष्टसामर्थ्यस्याप्यञ्जनादेः कारणत्वाभावक्लतिपरिहारेणान्यकारणत्वकल्पने भवतोऽनवस्थामुक्तिः । अथाञ्जनादिकमदृष्टसहकारि तत्कारणं न केवलमिति । नन्वेवं सिद्धम् । अदृष्टवदञ्जनादेरपि तत्र कारणत्वं
ततः संदेह एव । किं ग्रासादिवत्प्रयत्नसधाकृष्टाः पश्चादयः किं वा २५ स्यादिवदञ्जनादिसधर्मणा देवदत्तसंयुक्तेन द्रव्येणेति संदिग्धं तं प्रत्यु
पसर्पणवत्त्वादित्येतत्साधनम् । सपरिम्पन्दात्मप्रदेशमन्तरेण ग्रासा
"Aho Shrut Gyanam"