________________
परि. ५ स. ८ ] स्याद्वादरत्नाकरसहितः गाढदृष्टकल्पनावैफल्यम् । तं प्रत्युपसर्पणवत्त्वादिति हेतुश्च सव्यभिचार: । अदृष्टान्तरात्तस्य तं प्रत्युपसर्पणेऽनवस्था । तस्याप्यदृष्टान्तगत्तं प्रत्युपसर्पणप्रसंगात् । अथ देशान्तस्वर्तिपश्वादिसंयुक्तात्मप्रदेशस्थमेव तत्तेषां तं प्रत्युपसर्पणहेतु । नैवमन्यत्र प्रयत्नादौ गुणे तथानभ्युपगमात् । न खलु प्रयत्नो ग्रासादिसंयुक्तात्मप्रदेशस्थ एव ५ ग्रासादेदेवदत्तमुखं प्रत्युपसर्पणहेतुः । अन्तरालप्रयत्नवैफल्यप्रसंगात् । अथ प्रयत्नवैचित्र्यदृष्टेरदृष्टेऽप्यन्यथाकल्पनम् । तथा हि- कश्चित्प्रयत्नः स्वयमपरापरदेशवानपरत्र क्रियाहेतुः । यथानन्तरोदितोऽ. घरश्चान्यथा यथाशरासनाध्यासस्थानसंयुक्तात्मप्रदेशस्थ एवं शरादीनां लक्षप्रदेशप्राप्तिक्रियाहेतुरिति चेत् । तीयं विचित्रता पश्चादिसमा- १० कर्षणहेतुभूतगुणानां स्वाश्रयसंयुक्तासंयुक्तपश्चाद्याकर्षणहेतुत्वेन किं नष्यते । विचित्रशक्तित्वाद्भावानाम् । तथा दर्शनाभावादिति न वाच्यम् । अयस्कान्तस्पर्शगुणस्य स्वाश्रयासंयुक्तलोहद्रव्यं प्रत्याकर्षणदर्शनात् । अथात्र द्रव्यमाकर्षणकारणं न म्पर्शगुणो द्रव्यरहितस्य तस्याकृष्टिहेतुल्लादर्शनात् । एवं तर्हि तत एव प्रयत्नस्यापि न ग्रासा- १५ छाकर्षणनिमित्तता स्यात् । तथा च ग्रासादिवदिति दृष्टान्तः साध्यविकलो भवेत् । अथ द्रव्यस्य तत्र कारणत्वे प्रयत्नरहितस्यापि तत्प्रसक्तिरिति चेत् । म्पर्शरहितस्यायस्कान्तस्यापि किं न तत्प्रसक्तिः। तद्रहितस्य तम्यादृष्टे यं दोष इति चेत् । दृष्टिश्चेत्प्रमाणं तहिं लोहद्रव्याकर्षणोत्पत्तावुभयं दृश्यत इत्युभयमपि तत्तत्र कारणमस्तु । विशे- २० पामावात् । तथा च तं प्रत्युपसर्पणवत्त्वादिति व्यभिचारी हेतुः । तृतीयपक्षेऽपि शब्दवदपरापरस्योत्पत्तावपरमदृष्टं कारणं तदुत्पत्ती प्रसक्तं तत्राप्यपरमित्यनवस्था । अन्यथा शब्देऽपि किमदृष्टलक्षणनिमित्तपरिकल्पनया । अथ सर्वत्रादृष्टस्य वृत्तिस्ताहि सर्वद्रव्यक्रियाहेतुत्वम् । यददृष्टं तद्व्यमुत्पादयति । तत्तत्रैव क्रियामुपरचयतीत्य- २५ भ्युपगमे शरीरारम्भकेषु परमाणुषु क्रिया न स्यादिति प्रागेवोक्तम् ।
"Aho Shrut Gyanam"