________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ स. ८ दूषणमित्यनवस्था । अपि चात्मनः सकाशात्प्रदेशम्य भिन्नत्वे कथं तस्यायमिति व्यपदेशः । तेषु वर्तमानाच्चेत्तदाऽवयविपक्षनिक्षिप्ताशेषदूषणानुषङ्गः । अवयविवद्विनाशितापत्तेश्च परलोकाभावः स्यात् । तन्न देवदत्तशब्दवाच्यः कश्चित्परस्य घटते यं प्रत्युपसर्पणवन्तः ५ पश्चादयः स्वाकर्षणकारणस्य गुणत्वं साधयेयुः । आकर्षणकारणत्वेन
च संमतो देवदत्तात्मगुणः किं ज्ञानदर्शनादिरदृष्टं वा स्यात् । प्रथमपक्षे कालात्ययापदिष्टो हेतुः । ज्ञानादीनां पश्चाद्याकर्षणे व्याप्रियमाणानां तदेह एव प्रत्यक्षादितः प्रतीतेः । अथादृष्टं तर्हि तदाकर्षण
सन्निमित्तमम्माभिरपीष्यत एव । तदात्मगुणत्वं तस्य प्रमाणवाधित२० मित्यग्रे दर्शयिष्यते । अस्तु वा तस्यात्मगुणत्वं तथापि देवदत्तशरीर
संयुक्त आत्मप्रदेशे वर्तमानमदृष्टं देशान्तरवर्तिपश्वादिषु देवदत्तं प्रत्युपसर्पणवत्सत्क्रियाहेतुरुत देशान्तरवर्तिपश्वादिसंयुक्तात्मप्रदेशे किं वा सर्वत्र । तत्राद्यपक्षो न श्रेयान् । अतिव्यवहितत्वेन तत्रास्य प्राप्ते
रभावादाकर्षणहेतुत्वासंभवात् । अथ स्वाश्रयसंयोगसंबन्धसंभवात्तद१५ भावोऽसिद्धः । तदसत् । तस्य सर्वत्र सद्भावतः सर्वस्याकर्षणप्रसक्तः ।
यददृष्टेन यजन्यते तददृष्टेन तदेवाकृष्यते । न सर्वमित्यवद्यम् । देवदत्तोपभोग्यपश्चादिशरीरारम्भकपरमाणूनां नित्यत्वेन तददृष्टाजन्यतयाकर्षणाभावप्रसंगात् । तथाप्याकर्षणेऽतिप्रसंगः । अथ यदेव योग्यं
तदेवाकृष्यते । तदवद्यम् । स्वरूपसहकारित्र्यतिरिक्ताया योग्यताया२० स्त्वयानभ्युपगमात् । तस्याश्च विवक्षिताकृष्यमाणपदार्थवदविवक्षितेऽ
पि भावात् । द्वितीयपक्षेऽपि यथा वायुः स्वयमुपसर्पन्नन्येषां तृणादीनां तं प्रत्युपसर्पणहेतुः । तथाऽदृष्टमपि स्वयं तं प्रत्युपसर्पदन्येषामुपसर्पणहेतु देशान्तरवर्तिद्रव्यसंयुक्तात्मप्रदेशस्थमेव शब्दवत्प्रतिक्षणमन्य
दन्यच्चोत्पद्यमानं वा । प्रथमपक्षे सक्रियत्वेनादृष्टस्य वायुवव्यत्वापत्त्या २५ गुणत्वं बाध्येत । किं च । इदं स्वयमेव तं प्रत्युपसर्पत्यदृष्टान्तराद्वा ।
स्वयमेवाम्य तं प्रत्युपसर्पणे देशान्तरवर्तिपश्चादीनामपि तथैव तत्प्रसं
"Aho Shrut Gyanam"