________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
रूपत्वं तथा कालद्रव्यस्यापि समयमुहूर्तादितद्विशेषापेक्षया तत्तद्धर्माध्यस्तत्वसंभवादनेकस्वरूपत्वं प्रतिपत्तव्यम् । व्यापकत्वं चास्य नोपापादि प्रसाधकप्रमाणाभावात् । अथ कालः सर्वगतो द्रव्यत्वे सत्यमूर्तत्वाव्योमवत्, इत्यस्त्येव तदयुक्तम् । यतः किमिदममूर्तत्वं नाम विवक्षां चकृवानसि । अचाक्षुत्वं रूपादिरहितत्वं सर्वगतद्रव्यपरिमाणा- ५ म्पदत्वन् , असर्वगतद्रव्यपरिमाणाभाववत्त्वम् , असर्वगतद्रव्यपरिमाणसमवायाभाववत्त्वं वा । आये भेदे समीरेण व्यभिचारः । तस्याचाक्षुषद्रव्यस्याप्यसर्वगतत्वात् । द्वितीये तु मनसा तस्य त्वया रूपादिराहित्येन म्वीकृतस्यासर्वगतत्वेनोपगमात् । तृतीये पुनरितरेतराश्रयसंभवादासेद्धिः । सर्वगतद्रव्यपरिमाणास्पदत्वसिद्धौ १० हि कालस्य सर्वगतत्वसिद्धिः । तत्सिद्धौ च तत्सिद्धिरित । चतुर्थे तु कोऽयं कालेऽसर्वगतद्रव्यपरिमाणस्याभावः । किं प्रागभावः प्रध्वंसोऽत्यन्ताभाव इतरेतराभावो वा । न तावत्प्रथमौ । त्वन्मतेन कालेऽसर्वगतद्रव्यपरिमाणस्य कदाचिदवर्तिप्यमाणत्वात्, अवृतत्वाच । यदि हि कदाचित्कालस्य तद्भावि भवेत्तदा संप्रति प्रागभावः १५ स्यात् । यदि च भूतं भवेत्, तदा संप्रति प्रध्वंसः स्यात् । न चैवम् । न तृतीयः। कालेऽस्माकमसर्वगतद्रव्यपरिमाणात्यन्ताभावस्यासिद्धत्वात् । नापि चतुर्थः । पटादेरपि सर्वगतत्वापत्तेः । तस्याप्यसर्वगतद्रव्यपरिमाणस्वरूपेणासंकीर्णत्वात्तदितरेतराभाववत्त्वात् । अथासर्वगतद्रव्यपरिमाणसमवायाभाववत्त्वमिति पञ्चमः पक्षः। न च पटादेः सर्वगतत्त्वापत्तिः। २० तत्र तादृशपरिमाणसमवायाभावस्याभावादिति चेत् । ननु तत्समवायस्याप्यभावो न तावत्प्रागभावप्रध्वंसस्वरूपः प्रतिपादनीयस्तादृशपरिमाणसमवायस्य त्वन्मतेन काले कदाचिदभावात् । अत्यन्ताभावः पुनरसिद्धः कालस्यासर्वगतद्रव्यपरिमाणाविष्वम्भूतत्वेनास्माभिः स्वीकृतत्वात् । इतरेतराभावस्तु तस्य तेन कथंचित्स्वरूपममिश्रयत: २५ समस्त्येव । किं त्वयमनैकान्तिकः कुम्भादिना । तम्यासर्वगतद्रव्य
"Aho Shrut Gyanam"