________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. तोऽन्योन्यमविशिष्टाः । परम्परम्वरूपविविक्ततया तेषां प्रत्यक्षतः प्रतीतेः । प्रत्येकमपि चैषां विशिष्टतानुभूयत एव । न हि युगपद्भुक्ताः सुप्तः स्थिता गताश्चेत्यादौ तत्प्रत्ययानामविशेषोऽस्ति । प्रतीतिविरोधात् । अस्तु वा तत्प्रत्ययाविशेषस्तथाप्यत: का लम्यैकम्वरूपत्वाभ्युपगमे गुरुत्वादिप्रत्ययाविशेषाद्गुरुत्वपरिमाणादेरप्येकत्वस्वरूपत्वप्रसंगः । तुल्याक्षेपसमाधानत्वात् । ततो गुरुत्वपरिमाणादेरप्यनेकगुणरूपतावत्कालस्यानेकस्वरूपताभ्युपगन्तव्या । नित्यनिरंशैकस्वरूपत्वे चास्यार्थानां भूतभविष्यद्वर्तमानत्वं दुर्घटम् । अतीतानागतवर्तमानकालभेदाभावात् । सिद्धे हि सद्भेदे तत्संबन्धादर्थानां तथा व्यपदेशः म्यान्नान्यथा । १० अतिप्रसंगात् । अस्तु वा तत्र तद्भेदः । तथाप्यसौं स्वतोऽपरातीता
दिकालसंबन्धादतीतादिक्रियासंबन्धाद्वा स्यात् । न तावत्स्वतः । नित्यनिरंशत्वभेदरूपत्वयोर्विरोधात् । नाप्यपरातीतादिकालसंबन्धात् । अपरकालम्यैवासंभवात् । संभवे वाऽनवस्था । तदतीतत्वादेरप्यपरा
तीतादिकालसंबन्धनैवोपपत्तेः । अथातीतादिक्रियासंबन्धात्तथाविधकाल१५ संबन्धाद्रा । प्रथमविकल्पेऽनवस्था । द्वितीयविकल्पे त्वन्योन्याश्रयः ।
सिद्धे हि क्रियाणामतीतादित्वे तत्संबन्धात्कालस्यातीतादित्वसिद्धिः । तसिद्धौ च तत्संबन्धातासां तत्सिद्धिरिति । भवतु वा कुतश्चितत्रातीतादिभेदसिद्धिस्तथापि कालस्य सर्वथैकस्वरूपत्वप्रतिज्ञाने स्ववचनविरोधः । स्ववाचैवाम्यांतीतादिरूपतया भेदप्रतिपादनात् । लोकविरो२० धश्च । न खलु लौकिका अतीतादिरूपस्य पूर्वाहमध्याह्नापरालम्ब
भावस्य शीतोष्णवर्षास्वरूपम्य च कालस्यैकत्वं प्रतिपद्यन्ते । प्रत्येक तस्य तैमैदाभ्युपगमात् । अनुमानविरोधश्च । तथा हि-~~यत्समेतरधर्माध्यस्तं द्रव्यं तदनेकस्वरूपं, यथा पृथिन्यादि । सूक्ष्मेतरधर्माध्यस्तं
च कालद्रव्यमिति । यथैव हि पृथिव्यादिद्रव्यम्य परमाण्वितररूपतया २५ जीवद्रव्यम्य च कुन्थुगजादिम्वभावतया समेतरधर्माध्यस्तत्वादनेकस्व
१ कुन्थुः- स्वल्पप्रमाणो जन्तुः ।।
"Aho Shrut Gyanam"