________________
परि २.५ सू. ८ ]
"
युगपत्कृतस्य व्यवस्थानात् । चिरक्षिप्रव्यवहाराभावश्च । यत्खलु बहुना कालेन कृतं तचिरेण कृतमित्युच्यते यच स्वल्पेन कृतं तत्क्षिप्रं कृतमिति, तचैतद्दुभयं कालस्य सर्वथा नित्यादिरूपतायां दुर्घटम् । ननु कालस्य तद्रूपतायां सत्यामप्युपाधिभेदाद्वेदोपपत्तेर्न यौगपद्यादिप्रत्ययाभावः । तदुक्तम्- 'मंगिवद्वाचकवद्वोपाधिभेदात्कालभेद:' इति तदप्यसमीक्षितः भिधानम् । यतोऽत्रोपाधिभेदः कार्यभेदएव । स च युगपत्कृतमित्यत्राप्यस्त्येवेति किमित्ययुगपत्प्रत्ययो न स्यात् । अथ क्रमभावी कार्यभेदः कालभेदव्यवहारहेतुः । अथ कोऽस्य क्रमभावः, युगपदनुत्पाद इत्यस्य भाषितस्य कोऽर्थः । एकस्मिन्कालेऽनुत्पाद श्चेत् । नन्वेवमितरेतराश्रयः । यावद्धि कालस्य भेदो न सिध्यति न १० तावत्कार्याणां भिन्नकालोत्पादलक्षणः क्रमः सिध्यति । यावच्च कार्याणां तथाविधः क्रमो न सिध्यति न तावत्कालस्योपाधिभेदाद्वेदः सिध्यतीति । ततः स्वरूपत एव कालस्य भेदोऽभ्युपगन्तव्यः । तथा चैककालमिदं चिरोत्पन्नमिदमनन्तरोत्पन्नमिदमित्यादिव्यवहारः सुघटो नान्यथा । एतेन परापरव्यतिकरोऽपि चिन्तितः । सर्वथा नित्यादिस्वभावे काले तस्याप्यनुपपद्येमानत्वात् 1 यथैव हि भूम्यवयवैरालो कावयवैर्वा बहुभिरन्तरितं वस्तु विप्रकृष्टं परमिति बोच्यते, स्वयैस्त्वन्तरितं संनिकृष्टमपरमिति च । तथा बहुभिः क्षणै रहोरात्रादिमिर्वाऽन्तरितं विप्रकृष्टं परमिति चोच्यते । स्वल्यैस्त्वन्तरितं संनिकृष्टमपरनिति च । बह्वल्पभावश्च कालस्यैकस्वरूपत्वे सर्वथा दुर्वेटः । यत्परापरादिप्रत्यय हेतुस्तदनेकस्वरूपम् । यथा भूम्यादिप्रदेशाः परापरादिप्रत्ययहेतुश्च काल इति । अथ यौगपद्यादिप्रत्ययानां तल्लिङ्गभूतानां सर्वत्राविशेषादेकरूप एवायं युज्यते । तदप्युक्तिमात्रम् । तदविशेषस्यासिद्धत्वात् । न हि यौगपद्यादिप्रत्ययास्तलिङ्गभूताः स्वरूप
१५
स्याद्वादरत्नाकरसहितः
१ ' मणिवाचकवा नानात्वोपचारः इति वै. द. प्र. पा. भा. धृ. २५ पं. २ ।
५७
"Aho Shrut Gyanam"
८९३
२०