________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ हप्रसक्तेः कथमाकाशस्यातः सिद्धिरित्यपि न किंचन । आकाशस्य व्यापित्वेन स्वावगाहित्यसंभवादनवस्थानुपपत्तेरन्यार्थीनामव्यापित्वेन स्वावगाहित्वाभावाच्च । न हि किंचिदल्पपरिणामं वस्तु स्वाधारं दृष्टं
पुण्डरीकादेस्तोयाद्याधारत्वदर्शनात् । कथं तर्हि दिक्कालात्मनां व्योम्न्य५ वगाहो व्यापित्वादिति कश्चित् । सोऽपि न सूक्तवादी । तेषां व्यापि. त्वासिद्धेः । तदसिद्धिश्च दिग्द्रव्यस्यासत्त्वेन कालात्मनोश्वासर्वगतद्रव्यत्वेनाभिधास्यमानत्वात्प्रतीता । नन्वेवमपि कालात्मनोरमूर्तत्वेनानाधेयतासंभवात्कथमाकाशाश्रयता । इत्यप्यमनोज्ञम् । ज्ञानादेरमू
तस्याप्यात्मन्याधेयताप्रतीतेः । एतेनामूर्तत्वान्नाकाशं कस्यचिदधिक१० रणमित्यपि परास्तम् । आत्मनोऽमूर्तस्यापि ज्ञानाधिकरणत्वप्रतीतेः ।। आत्मसिद्धिश्च करिष्यते । एवं च-- अस्त्येव नित्यं विभु सप्रदेशं कथंचिदाकाशमितीहितं नः। संन्यायमार्गोपनिषन्निषण्णस्वान्तस्थितीनामसिधस्कृतीन्द्राः १६६२१ काले तु त्रयो विवादा एकान्तनित्यत्वे निरंशत्वे व्यापित्वे च । त
_ वाद्यः समादधे । द्वितीयोऽप्याकाशनिरंशत्वनि. कालविचारः ।
' रसनदिशाऽपसारणीयः । नित्यनिरंशैकरूपत्वे चास्य कथं भिन्नदेशानेककार्यकारित्वं घटते । ब्रह्मणोऽप्ये. वविधस्यानेकपामारामादिकार्यकर्तृत्वानुषङ्गतस्तदद्वैतासिद्धिप्रसंगात् । विचित्रसहकारिवशात्तस्य तथाविधस्यापि तत्कर्तृत्वाविरोधइत्यध्यन्यत्राविशिष्टमविद्यादेः सहकारिणो ब्रह्मण्यपि संभवात् । न च. स्वरूपमभेदयतां सहकारित्वं संभवतीति स्थाने स्थाने प्रागवोचाम। अतोऽत्र योगपद्यादिप्रत्ययानुपपत्तिरेव । यत्खलु कार्यजातमेकस्मिन्क्षणे कृतं तद्युगपत्कृतमित्युच्यते । कालस्य च नित्यैकत्वादिरूपत्वे २५ तदुत्पाद्यत्वेन कार्याणामेकदैवोत्पत्तिप्रसंगान किंचिदयुगपत्कृतं स्यात् ।
तथा च युगपत्कृतमपि न किंचिद्भवेत् । अयुगपत्कृतापेक्षयैव
"Aho Shrut Gyanam"