________________
परि. ५ स. ८] स्याद्वादरत्नाकरसहितः समवाय एव वृत्तिरिति चेत् । न । तस्य निराकरिष्यमाणत्वात् । यदि च निरंशं नभो भवेतदा श्रवणसमवेतस्येव ब्रह्माण्डवर्तिनोऽपि शब्दस्यास्मदादिभिरुपलम्भः स्यात् । निरंशैकाकाशलक्षणश्रोत्रसमवेतत्वात् । अथ धर्माधर्माभिसंस्कृतकर्णशष्कुल्यवच्छिन्नाकाशदेश एव श्रोत्रम् । तत्र ब्रह्माण्डवर्तिनः शब्दस्यासमवायानास्मदादिभिरुपलम्भः । ५ नन्वयमन्धसर्पविलप्रवेशन्यायेन सावयवत्वाङ्गीकार एव परिहारः । श्रोत्राकाशदेशात् ब्रह्माण्डवर्तिशब्दाधाराकाशम्यान्यत्वात् । किं चैतस्मिन्नभ्युपगमे संतानवृत्या शब्दस्यागतस्य श्रोत्रेणोपलब्धिर्न स्यात् । अपरापराकाशदेशोत्पत्तिद्वारेणास्य श्रोत्रसमवेतत्वासंभवात् । कृशानुवेश्मादीनामेकदेशतावैशसं चापनपद्येत । अभिन्नै- १० कनभःसंसर्गित्वात् । तथा हि---- येनैव वियत्स्वभावेन स कृशानुः संयुक्तस्तेनैवाखिलमपरमपि वेश्म विपिनपलालकूटाविकमित्यनल्पज्वालाजालकरालकृशानुवत्तत्रैव त्रिभुवनमप्यासज्येत । तदेवमस्मिन्नितरामुपस्थिते समन्ततोऽपि व्यसने सुदुस्तरे । उपैहि वैशेषिक सांशतादि वः किमानहैरेभिरुदर्कककशैः ॥६६१॥ १५ यत्तु नामसत व्योम स्वरूपेणापि सौगताः । तेषामेषोऽनुमानाख्यः सेनानीः शिक्षणक्षमः ।। ६६२ ॥
तथा हि- युगपन्निखिलद्रव्यावगाहः साधारणकारणापेक्षो, युगप. निविलद्रव्यावगाहत्वात् । य एवं स एवम् । यथैकसरःसलिलान्तःपातिमत्स्याद्यवगाहः, तथावगाहश्चायं तस्मात्तथा । यच्चापेक्षणीयमत्र २० साधारणं कारणं तदाकाशमिति । नन्वालोकतमसोरेवाशेषार्थावगाहे साधारणकारणत्वं भवित्याः कथमस्मादाकाशसिद्धिरिति चेत् । तदाकुलम् । आलोकतमसोरप्पाकाशाभावेऽगाहस्यायोगात् । ननु सर्वार्थानां यथाकाशेऽवगाहस्तथा तस्याप्यपरत्राश्रयेऽवगाहेन भाव्यमित्यनवत्या ते । अस्य स्वरूपेऽवगाहेऽखिलार्थानामपि स्वात्मन्येवावगा- २५
१ कृशानुवेश्म पाकगृहम् ।
"Aho Shrut Gyanam"