________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५ सू. ८
न्ततो भिन्नैः संबन्धे यथोक्तदोषानुषङ्गात् । कात्स्न्यैकदेशव्यतिरिक्तस्य प्रकारस्य तत्संबन्धनिबन्धनस्यासिद्धेः । कथंचितादात्म्यस्य तत्संबन्धत्वे स्याद्वादमतसिद्धिः । सामान्यतद्वतोरवयवावयविनोश्च कथंचित्तादात्म्योपगमात् । न चैवमाकाशस्य परमाणुभिः कथंचित्तादात्म्य५ मित्येकदेशेन संयोगोऽभ्युपगन्तव्यः । तथा च सांशत्वसिद्धिः । किंच सांशमाकाशम्, श्येनमेषाद्यन्यतरोभयकर्मजसंयोगविभागान्यथानुपपत्तेः । श्येनेन हि स्थाणोः संयोगो विभागश्चान्यतरकर्मजः । तत्रोत्पन्नं कर्म स्वाश्रयं श्येनं तदाकाशप्रदेशाद्वियोज्य स्थाण्वाकाशदेशेन संयोजयति । ततो वा विभज्याकाशदेशान्तरेण संयोजयतीति १० प्रतीयते । न चाकाशस्यांशाभावे तद्धटते । कर्माश्रयभूतश्येनस्थाण्वोरेकदेशत्वात् । एतेन मेषयोरुभयकर्मजः संयोगो विभागश्चाकाशस्याप्रदेश न घटत इति निवेदितम् । क्रियानुपपत्तिश्च तस्था देशान्तरप्राप्तिहेतुत्वेन व्यवस्थितत्वाद्देशान्तरस्य चासंभवात् । तत एव परत्वापरत्वपृथक्त्वाद्यनुपपत्तिः पदार्थानां विज्ञेया । यदि च निरंशमाकाशं १५ तर्हि तद्वत्तदाश्रितस्य शब्दस्यापि व्यापित्वापत्तिः । तस्याव्याप्यवृत्तित्वे वा कथं तदधिकरणस्य व्योम्नः सांशत्वं न स्यात् । यतो व्याप्यवृत्तित्वमस्य पर्युदासरूपं वा स्यात् । आद्यपक्ष एकदेश चित्वमेवाभिहितम् । भवेदाकाशं व्याप्य शब्दो न वर्तत इति ब्रुवतस्तदेकदेशे वर्तत इत्यापत्तेः । व्याप्यवृत्तित्वं हि सामस्त्यवृत्तित्वं तत्प्रतिषेधे त्वेक२० देशवृत्तित्वमेव भवति ।
एवं च-
८९०
-
4
ध्वनिरेकदेशवृत्तिः प्रदेशशून्ये च वर्तते व्योम्नि ।
इति मे माता वन्ध्येत्यस्य चिरान्मित्रमीक्षितं सूक्तम् ॥६६०॥ प्रसज्यपक्षे तु व्याप्यवृत्तौ निषिद्धायां नभस एकदेशानभ्युपगमे २५ तेनापि वृत्त्यसंभवे वृत्तिमात्रस्यापि प्रतिषेधः स्यात् । न चैतत्तवोपपद्यते । शब्दस्य गुणत्वस्वीकाराद्गुणस्य चावश्यं द्रव्याश्रितत्वा
" Aho Shrut Gyanam"