________________
परि. ५ स. ८] स्याद्वादरत्नाकरसहितः चित्तदभिन्नस्य व्योन्नोऽपि समुत्पादादारभ्यारम्भकभावोपपत्तेः । अथ कथंचित्सदावयवानारभ्यत्वं हेतुम्तदा विरुद्धः । कथंचिन्निरंश. त्वस्य सर्वथा निरंशत्वविरुद्धस्य साधनात् । स्यान्मतम् । नाकाशस्य प्रदेशा मुख्याः सन्ति स्वतोऽनवधार्यमाणत्वात्परमाणुवत् । पटादीनां हि मुख्याः प्रदेशाः स्वतोऽवधार्यमाणाः सिद्धाः । सुरसरणौ तु ५ स्वतोऽवधार्यमाणत्वं न तेषामस्ति । घटाकाशं पटाकाशमित्युपाधिवशादेवावधारणात्तदनुपपन्नम् । अणुकादीनां व्यणुकाद्यवयवैरनैकान्तिकत्वात् । तेषामस्मदादिभिः स्वतोऽनवधार्थमाणानामपि मुख्यतया भावात् । अत्यन्तपरोक्षत्वादस्मदादिभिस्ते स्वतो नावधार्यन्त इति चेत् । तत एवाकाशप्रदेशाः स्वतोऽनवधार्थमाणाः सन्त्वस्मदादिभिः । १० अतीन्द्रियार्थदर्शिनां तु यथा व्यणुकादयः प्रदेशाः स्वतोऽवधारणीया. स्तथाकाशप्रदेशा अपीति स्वतोऽनवधार्यमाणत्वादित्यसिद्धो हेतुः । उपचरितत्वे चाकाशप्रदेशानां मुख्यकार्यकरणं न स्यात् । सज्जनतयोपचरितोऽपि दुर्जनप्रकृतिरत्र कोऽपि पुमान् । न खलु जनकर्णकुहरं सिञ्चति वचनामृतच्छटया ॥ ६५९ ॥ १५
अन्यथा मुख्यसजनत्वप्रसंगात् । प्रतीयते च मुख्य कार्यमनेकपुद्गलादिद्रव्यावगाहनलक्षणम् । निरंशस्यापि विभुत्वात्तद्युक्तमिति चेत् । कथं विभु निरंशं चेति । सर्वद्रव्यव्यापकत्वं हि विभुत्वम् । तत्कथं निष्प्रदेशस्य स्यात् । किं च कथंचित्सशिमाकाशं परमाणुभिरेकदेशेन संयुज्यमानत्वात्पटवत् । तस्य तैः सर्वात्मना संयु- २० ज्यमानत्वे परमाणुमात्रत्वप्रसंगः । तथा चाकाशबहुत्वापत्तिः । स्यान्मतम् । नैकदेशेन सर्वात्मना वा परमाणुभिराकाशं संयुज्यते किं तर्हि संयुज्यत एव यथावयवी स्वावयवैः, सामान्य वा स्वाश्रयैः समवेयत एवेति । तदसत् । साध्यसमत्वानिदर्शनस्य । तस्याप्यवयव्यादेः सर्वथा निरंशत्वे स्वावयवादिभिरेका- २५
१ सुरसरणिः-- आकाश: । 'अनन्तं सुरवम खम् ' इत्यमरः ।
"Aho Shrut Gyanam"