________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५सू. ८
कारस्येति । न ह्याकारतादिना स्थूलाकारवन्नीलाद्याकारोऽपि ज्ञानस्थादाकारादर्थान्तरभूतः कदाचिददर्शि । तत्कथं प्रत्यक्षानुपलम्भाभ्यामपि विशेषस्तदाकारयोः कार्यकारणभावो व्यवस्थाप्यते । अर्थापत्त्या तु स्थूलाकारस्यापि बाह्यजन्यत्वसिद्धिः स्यात् । समानयोग५ क्षेमत्वात् । बहवः संनिविष्टाः परमाणव एव स्थूलत्वेनावभासन्त इति चेत् । नैवम् । संनिवेशस्तेषां देशप्रत्यासत्तिः संयोगविशेषो वेत्यादिनास्य प्रचयवन्निर्मूलनार्हत्वात् । प्रत्येकमसंचितास्थूलेषु परमाशुषु तथाकारं ज्ञानं च भ्रान्तमेव स्यात् । अथ बुभुक्षाक्षामकुक्षेः क्षीरोपढौकनं प्रातरेचैतत्प्रियमेव हि में स्थूलैकप्रतीतेर्भ्रान्तत्वमिति १० चेत् । स्यादेतदेवम् । यदि कालकूटच्छटा लाञ्छनं तत्र न स्यात् । एवं हि कचिदभ्रान्तेन स्थलैकाकारप्रत्ययेनावश्यं भवितव्यम् । सर्वत्राभ्रान्तिपूर्वकत्वात् भ्रान्तेः । न खल्वनाकलितसत्यकलधौतस्य पुंसः शुक्तिशकले कलधौतभ्रान्तिर्भवितुमर्हति । वासनावशादेवामूहशी प्रतीतिः प्रादुर्भवतीति चेत् । तत्किं शुक्त रजतप्रतीतिर्न वास१५ नानिमित्ता यदगृहीतरजतस्य कदाचिन्नोल्लसति । ततो वासनाप्यस्य प्रत्ययस्यास्तु निमित्तम् । किं तु नेयमणुगृहीततथा स्थूलाकारस्योहोद्रुमर्हति । किं च यदि वासनावशात्तथा प्रतीतिस्तदा कथं कोटिप्रमाणानामपि पुंसां घटे घटोऽयं घटोऽयमित्येकाकारैवाहं प्रथमिकया प्रतीतिरुज्जिहीत । वासनाया एकत्वादिति चेत् । नन्वेकत्वमेक२० स्वरूपमेकादृक्षत्वं वा विवक्षितम् । नाद्यः कल्पः । अनेकसंतानस्थितैकवासना
૮૬
...
....
....
किमुत्तरं वितरति । अथास्त्वेवं बाह्यस्याभावो ज्ञानस्यैव परमार्थसत्त्वादिति चेत् । न । तस्यापि परमाणुरूपत्वेन प्रकृतदूषणानतिक्रमात् । मा भूत्तदप्यस्तु । परमकाष्ठानिष्ठं शून्यमेवेति चेत् । २५ मैचम् | तस्य प्रागेव प्रतिघातात् । संयोगहेतुस्वभावापेक्षयेति पक्षस्तु. कक्षीक्रियत एव । दिग्भेदेनाणु संयोगहेतु भूतस्वभावलक्षणांशानां पर
....
"Aho Shrut Gyanam"