________________
८८७
परि. ५ स. ८ ] स्याद्वादरत्नाकरसहितः माणुषु संमतत्वात् । कथमन्यथा नीराहरणाद्यर्थक्रियाकारिणः कुम्मादेर्निवृत्तिः । न हि परमाणवस्तत्कारिणः परस्परमसंश्लिष्टत्वात्कपालप्रतिकपालादिकलापवत् । अथ देशप्रत्यासत्तिभाजस्ते तत्कारिणः । नैवम् । अवयविनोऽनभ्युपगमे देशप्रत्यासत्तेरप्यनुपपत्तेः । घटाधारभू. प्रदेशस्यावयवित्वात् । नैरन्तर्येणोत्पन्नास्तत्कारिण इति चेत् । ननु ५ नैरन्तर्यमेकत्र देशेऽवस्थानम् , अन्तरालाभो वा । आद्यपक्षोऽस्मगृहादिक्षितः । सौगतानामेकदेशस्यासंभवात् । द्वितीये तु किमन्तरालशब्दवाच्यं स्यात् । यद्याकाशं तदा सिद्ध एवावयवी तस्यापि सप्रदेशत्वात् । आलोकमन्तः परमाणवोऽन्तरालं तस्य चाभावो घटादिपरमाणूनामन्तरेषु स्पष्ट एवेति चेत् । न त्वन्तरशब्दवाच्यं व्योम १०. स्यादन्तरालमेव वा ! आद्यः कृतोत्तर एव । द्वितीये तु सुतरामालोकतमःपरमाणूनां तत्र भावोऽभिहितो भवेत् । अन्तराले हि यदान्तरालाभावोऽभिधीयते तदाऽन्तरालशब्दाभिधेया आलोकतमःपरमाणवस्तत्र सिद्धाः स्वीकर्तव्याः । न चालोकतमःपरमाणवो नियताः केचन निश्चिताः सन्ति येषु कापि तदपरेषामालोकतमःपरमाणूनाम- १५ भावोऽभिधीयेत । कपालानि च जलाहरणं कथं न कुर्युः । तदन्तरालभूतेष्वालोकतमःपरमाणुषु तदपरेषां तेषामभावात् । अस्तु वा यत्किचिदन्तरालशब्दवाच्यं तथापि पाषाणखण्डपरमागवः किमिति न जलाहरणं कुर्वन्ति । तेषां नैरन्तर्योत्पादस्य तत्रापि भावात् । अथ तेनैवाकारेणोत्पन्नास्ते तत्कारिणो नान्यथा । नन्वेतदप्यस्मद्गृहभिक्षित. २०. मेव । आकारशब्देन संयोगविशेषादेः कस्यचिदभिधानात् ।
अहो तु खलु चौद्धानां भिक्षुत्वमति युज्यते ।
भिक्षाशीलतयैवैषां यद्गृहे जायतेऽखिलम् ।। ६५३ ॥ एवं चसंयोगहेतुभूतस्वभावषट्रे स्थितेऽणुषु प्रकटे । अवयविजन्मनिमित्तं संयोगः संगतिमगच्छत् ।। ६५४ ॥
"Aho Shrut Gyanam"