________________
परि. ५ सू. ८ ]
स्याद्वादरस्नाकरसहितः
किंचिन्निमित्तमिति । तथा हि- यणुकाद्यवयवव्युत्पत्तौ निमित्तं परमागुसंयोगः समयो .... .... कदेशेन वा स्यात् । यदि सर्वात्मना तदा पिण्डस्याणुमात्रतापतेर्वितीर्णस्तोयाञ्जलिरवयविकथायै । अथैकदेशेनेति पक्ष: । सोऽपि न क्षमः । परमाणूनां देशासंभवात् । तत्संभवे तेषां परमाणुत्वायोगात् । दिग्भागभेदतः परमाणुषट् न युग- ५ पसंयुज्यमानानां तेषां षडंशत्वानुषंगात् । तस्मादयःशलाकाकल्पाः परमाणव एव परमार्थसन्तः स्वीकर्तव्याः । त एव च स्थूलतथाविधाकृतिच्युता अपि तदाकारप्रतीनिमित्ततामुपयान्ति चिकुरा इव तैमिरिकोपलब्धेरिति । करोत्यहो रक्तपटेषु राज्यमेकान्तपक्षास्थितिमोहराजः । १०
यल्लक्ष्यमाण जगतापि साक्षाद्विक्षिप्य जल्पन्ति तदन्यदेते ॥६५२॥ तथा हि-- यदजल्पि ' रूपादिपरमाणुप्रचयस्यैव प्रतिभासात् ' इति तदसत् । यतः किमिदं प्रचयशब्दाभिधेयं धीमताधीतम् । देशः, 'प्रत्यासत्तिः, संयोगविशेषो भूयस्त्वमानं वा । प्रथमपक्षद्वयेऽवयविसिद्विरप्रत्यूहा । देशस्य व्योमायशस्वभावस्य स्वयमवयवित्वादवयविना १५ समानन्यायता संयोगस्य स्वीकारे प्रागेवावयविकक्षीकाराच्च । तृतीयपक्षे न चक्षुरादेः परमाणुप्रचयस्य प्रतिमासः स्यात् । रूपादीनां प्रतिनियतेन्द्रियग्राह्यतया तत्परमाणुप्रचयस्यैकेन्द्रियाविषयत्वात् । नायि प्रतिनियतैरपीन्द्रियैः प्रतिनियतानामपि तेषां ग्रहणमनुगुणं परमाणूनां हृषीकगोचरत्वासंभवाद्विषयलक्षणरहितत्वाद्वस्त्वाकारज्ञानजनकत्वं हि २० विषयलक्षणमाचक्षते भिक्षवः । न च तदणूनां विद्यते । सर्वत्र स्थूलाकारस्यैव संवेदनात् । विलक्षणाकारज्ञानजनकस्यापि विषयभाये चक्षुरादेरपि विषयत्वं स्यात् । अथ नीलाद्याकारार्पकत्वं परमाणूनामस्ति तद्वशेनैव विषयत्वम् । तदयुक्तम् ! यतोऽयं नीलाचाकारः स्थलात्मकत्वेनैव संवेद्यते न परस्परासंश्लिष्टपरमाण्वात्मकत्वेन । २५ कुतश्चायं विशेषोऽवधार्यते नीलायाकारस्यैव बाह्यजन्यत्वं न स्थूला.
"Aho Shrut Gyanam"