________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५ सू. ८
सिद्धः । प्रमाणसिद्धस्य सर्वान्प्रत्यविशेषात् । तथा च तदेव कालात्ययापदिष्टत्वं हेतोः । अथाप्रमाणतस्तर्हि प्रमाणं विना प्रमेयस्यासिद्धिरित्येव च वाच्यम् । किमनुमानोपन्यासेन । अप्रमाणसिद्धच परस्यापि न सिद्ध इति पुनरप्याश्रयासिद्धत्वम् । नापि प्रसंगसाधन५ मेतत् । यतो व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र प्रदर्श्यते स प्रसंग | व्याप्याभ्युपगमश्च परस्य प्रमाणपूर्वकत्वेन त्वयावधारितोऽन्यथा वा । आद्यपक्षे न प्रसंगस्योत्थानम् । तेनैव प्रमाणेन तद्व्याप्तेः पराकरणात् । द्वितीयपक्षे तु प्रमाणमेव परः प्रष्टव्यः । किंप्रमाणकोऽयं तवाभ्युपगम इति । न च परस्यैकान्तैक१० रूपत्वस्यानेक वृत्त्यभावादेश्व व्याप्यव्यापकभावः प्रासिध्यत् । अनेकवृत्त्यादिसद्भावेऽपि सामान्यादावेकत्वस्य प्रमाणसिद्धत्वादिति । तदेतदखिलमनलप्लुष्टपलालपूलपर्यन्तमनुकरोति । यतः प्रथमपक्षस्तावदनभ्युपगमादेव निरस्तः । प्रसंगसाधनकरूपे तु यौ विकल्पविकल्पविषातां तौ यदा शब्दानित्यत्वादितूष्णीकामाकलय्य स्थातुमर्हसि १५ त्वम् । तत्प्रतिषेधानुमानस्य सकलस्य तेन तिरस्करणात् । अथाप्रमाणसिद्धस्तर्हि पर एवं प्रमाणं प्रष्टव्यो न चैवम् । तत्र तत्र तत्प्रतिषेधानुमानोपन्यासात् । अथाप्रमाणसिद्ध एव पराभ्युपगमः परं .... ....राभ्युपगमप्रतिषेधं परित्यज्यान्यत्र प्रसंगः प्रत्यपादि । तथा हि- यद्येकान्तैकरूपत्वमूरीक्रियतेऽ२० वयविनस्तदा तद्व्यापकमनेकवृत्त्यभावादिकमपि भवेदिति संभावनागर्भाभ्युपगमद्वारेण प्रसंगमभिधाय तस्य न ...... प्रतिपाद्यते । एकान्तैकरूपत्वविरुद्धं ह्यनेकरूपत्वं तेन व्याप्तस्यानेकवृत्त्यादेरत्रोपलम्भः । विपर्ययहेतुरेव च मौलो हेतुः । न चायं नोभयोरपि सिद्धोऽनेकवृत्यादेस्तत्रोभयसंमतत्वात् । नाप्याश्रयासिद्धोऽ
"
माणस्यात्रानो -
....
433.
4944
4546
२५ वयव
पस्थानात् । यत्खलु यन्मात्रनिमित्तं तत्तस्मिन्सति भवत्येव यथा
1804
....
" Aho Shrut Gyanam"
1630
....
....