________________
८७२
परि. ५ सू. ८J स्याद्वादरत्नाकरसहितः म्भकप्रमाणगम्यत्वं पण्णामस्तित्वमभिधीयते । तच्च षट्पदार्थविषयं ज्ञानं, तस्मिन्सति सदिति व्यवहारप्रवृत्तेः । एवं प्रमाणजनितं प्रमेयत्वमभिधानजनितमभि नीलादिविलक्षणे पीतादौ प्रतिभासमाने नीलादिप्रत्यभिज्ञानमस्ति । तस्मात्कथंचिद्विरुद्धनीलादितादात्म्येनावस्थितं कथंचिदेकं तचित्रं ५ रूपमुपगन्तव्यम् । तथा च व्यभिचारः स्पष्टः ।
एवं च वैशेषिककुञ्जराणां दशानुमानीदशनावलीयम् । दोषैरनेकैश्चलितात्र मूलारक्लेशस्थिते केवलमस्ति हेतुः ॥ ६४९ ।।
यञ्चोक्तम्- स्थूलप्रतिभासो न स्यात्' इति तदप्यसाधीयः । तत्त. दवयवानामवस्थाविशेषस्थ कथंचिदविप्वम्भूतस्यैकस्य चावयविशब्द- १० वाच्यस्याभ्युपगमात् । एवं च तादृशस्थूलावयविव्यपेक्षयाऽणुत्वव्यपदेशोऽपि परमाणुषु सूपपाद एव । अपि च शुचिबिचारचातुरीचुचुचेतसां शेमुषीचक्षुवि नायमेकान्तेनैकरूपः परिस्फुरतीति कथंचिदनेकेनानेन भवितव्यम् । न चानेकेडमी अवयवेभ्यो भिद्यमानमूर्तयः समुपलभ्यन्त इति यावन्तोऽवयवास्ताबदात्मकत्वमवयविनः स्वीकर्त- १५ व्यम् ! तथा हि- यदेकान्तेनैकरूपं न तदनेकवृत्ति चलाचलं रक्तारक्तमावृत्तानावृत्तं वा भवितुमर्हति । एकान्तैकरूपश्चावयवी स्वीकृतस्त्वयेति व्यापकविरुद्धोपलब्धः । अनेकवृत्त्यादेहि व्यापकमनेकत्वं तद्विरुद्धं चैकत्वमत्रोपलभ्यमानमनेकत्वं व्यावर्तयति । तच्च व्यावर्तमानमनेकवृत्त्यादि स्वव्याप्यमादायैव व्यावर्तत इति । अथाचक्षीथाः , २० किमिदं स्वतन्त्रसाधनं प्रसंगसाधनं वा । न प्रथमम् ।
अवयविनः प्रमाणासिद्धत्वेन हेतोराश्रयासिद्धत्वदोषात् । प्रमाणसिद्धत्वे वा तत्प्रतिपादकप्रमाणाबाधितपक्षनिर्देशानन्तरप्रयुक्तत्वेन तस्य कालात्ययापदिष्टत्वदोषदुष्टत्वात् । न च परस्यावयवी सिद्ध इति नाश्रयासिद्धत्वदोष इति वक्तुं युक्तम् । यतः परस्य किं प्रमाण- २५ तोऽसौ सिद्धः स्याइप्रमाणतो वा । प्रमाणतश्चेद्भवतोऽपि किं न
"Aho Shrut Gyanam"