________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ थेरन् । आये कल्पे विरुद्धता कथंचिध्यवच्छेद्यव्यवच्छेदकमावास्पदत्यादीनां कथंचि देनैव व्याप्तत्वात् । द्वितीये तु प्रतिवाद्यसिद्धिः । जैनानां सर्वथा व्यवच्छेदकभावास्पदत्यादेस्तन्तुपटादिप्व
प्रसिद्धेः । तृतीये तु संदिग्धानेकान्तः । सामान्येन व्यवच्छेद्यव्यवच्छे. ५ दकभावास्पदत्वादिसद्भावेन भवितव्यमेव । कथंचिद्भेदेनेत्यत्र प्रमाणा
भावात् । निश्चितव्यवहारश्च व्यवच्छेद्यव्यवच्छेदकभावास्पदत्वहेतुः । घण्णां पदार्थानामस्तित्वमित्यादौ तद्भावेऽपि भेदाभावात् । अथ सदुपल. म्भकप्रमाणविषयत्वं धर्मान्तरं षण्णामस्तित्वमिप्यत इति न हेतोय॑मि
चारः । तदचारु । सप्तमपदार्थप्रसक्तेः । अथ षट्पदार्थव्यतिरिक्ताना३० मपि धर्माणामभ्युपगमान्नायं दोषः । तथा च पदार्थप्रवेशकग्रन्थः--
' एवं धमर्विना धर्मिणामुद्देशः कृतः' इति । असदेतत् । तैस्तेषां संवन्धानुपपत्तेः । तमन्तरेण च धर्ममिभावायोगात् । अन्यथातिप्रसंगात् । न च संयोगलक्षणोऽत्र संबन्धः। संयोगस्य गुणत्वेन
द्रव्येष्वेव भावात् । नापि समवायस्वरूपः । स तावत्तस्य सर्वत्रैकत्वा१५ भ्युपगमात् । समवायेन च सह समवायसंबन्धे द्वितीयसमवायाभ्यु
पगमप्रसंगात् । षड्भिः पदार्थैर्धागामुत्पादनात् । तेषां तैः संबन्धाभ्युपगमे पटायोऽपि तन्त्वादिसंबन्धिनस्तथैव स्युरिति समवायाख्यसंबन्धान्तरकल्पनावैयर्थप्रसक्तिः । भवतु वा षण्णामस्तित्वं धर्मान्तरम् । तथापि व्यभिचार एव । तदस्तित्वेऽपरास्तित्वाद्यभावेऽपि तदस्तित्वप्रमेयत्वाभिधेयत्वानीति व्यवच्छेद्यव्यवच्छेदकभावप्रवृत्तेः । अथ तत्राप्यपरास्तित्वाद्यभ्युपगमस्तदानवस्थाप्रसक्तिः । न चेष्टत्वान्न दोषः । सर्वेषामप्युत्तरोत्तरधर्माधारत्वाद्धर्मित्वप्रसक्तेः षडेव धर्मिणः प्रोक्ता इत्येतस्यानुपपत्तेः । न च धर्मिरूपा एव ये त एव षट्वेनावधारिता
इति वक्तव्यम् । गुणादीनामनिर्देशप्रसंगात् । न हि गुणादीनां २५ धर्मिरूपतैव किंतु द्रव्याश्रितत्वाद्धर्मरूपत्वमिति । यस्त्वाह - सदुपल
१. पा. भाष्ये पृ. ५५. ३.
"Aho Shrut Gyanam"