________________
परि. ५ सू. ८] स्थाद्वादरत्नाकरसहितः
८७७ प्रत्यक्षस्यैव सर्वात्मना वस्तुग्राहकस्य परमार्थतः प्रत्यक्षत्वात् । मन्द. मन्दप्रकाशेऽवयवप्रतिभासमन्तरेणाप्यवयवी प्रतिभासते । ततस्तेभ्योऽत्यन्तभिन्न एवायमिति कश्चित् । सोऽपि न विपश्चित् । तदानीमप्यवयवानां प्रतिभासभावात् । ननु के नाम तदानीमवयवाः प्रतिभासेरन्, अवयवी क इति कथ्यताम् । यो यत्रास्ति स तत्रेति चेत् । अबयवा अपि तस्यैव केचनेति बुद्धयस्त्र । ननु तिमिरपरिकरिते प्रदेशे न चञ्चुचरणादयो निश्चेतुं शक्यन्ते । तत्र किं शकुन्तादिः शक्यते । संस्थानमात्ररूपः शक्यत एवायमिति चेत् । अवयवा अपि तथैव किं न शक्यन्त इत्यवयवात्मकस्यैव सर्वत्राम्य प्रतिभासान्न प्रत्यक्षेण भिन्नस्यैवावयविनो ग्रहणम् । अथ भिन्न एवायं गृह्यते स्वरूपतः १० समवायात्तु तथा प्रतिभास इति चेत् । तकि समवायोऽपि कश्चिदपर. स्तत्रास्ति । ओमिति चेत् । अयमपरो गण्डस्योपरि पिटकोद्भेदः । अवयवावयविनावपि तावदःशकावेकान्तेन पृथग्भूतौ समर्थयितुम् , किं पुनरपरः समवायः। अथाविष्वग्भाव एव तेषां समवायः । तर्हि सिद्धः कथंचिदभेदः । प्रत्यक्षमपि चात्रैव दत्तहस्तकम् । एवं च---
प्रत्यक्षबाधितत्वं पक्षस्य क्षिपति तेऽनुमानततिम् । भस्मीकरोति किं न हि पलालकूटं कृशानुकणः ॥ ६४७ ॥ प्रत्यक्षक्षिप्तपक्षे च हेतूनामभिधानतः ।
कालात्ययापदिष्टत्वं स्पष्टं निष्टक्यतां त्वया ॥ ६४८ ॥ २० नावयवेभ्योऽवयवी भिन्न एवाशक्यविवेचनत्वान्यथानुपपत्तेरित्यनुमानबाधितश्च पक्षः । विवक्षितावयवेभ्योऽन्यत्र नेतुमशक्यत्वं यत्राशक्यविवेचनत्वम् । तच्च तन्त्वादिभ्यः पटादेः पृथग्देशं नेतुमशक्यत्वेन सुप्रसिद्धम् । न चैकद्रव्यवर्तिरूपादिभिर्व्यभिचारः । तेषामपि तहव्यतादात्म्यात्कथंचिदेकत्वात् । अपि च व्यवच्छेद्यव्यवच्छेदभावास्प- २५ दत्वादीनि साधनानि सर्वाण्यपि कथंचित्सर्वथा सामान्येन वा संगी
"Aho Shrut Gyanam"